________________
पिशुनपञ्चाशिका
क्षेत्राधिनाथ ! भगवन्नकृपः कृपाण्या
त्वं तस्य दुर्जनपशोः परिकुन्त जिताम् । यद्वाग्विषप्रसरमोहनिरस्तकान्ता
दुःखोमिभिः स्फुटमजीयत रामभद्रः ॥२५॥ श्रीराघवः पवनदिष्टपतङ्गराग
ध्यानादमोचि पवनाशनपास(श)बन्धैः । दृष्टं पुनः पिशुनपांसनकूटपाश
निर्मोचनप्रति विधानमहो न किञ्चित् ॥२६॥ द्रव्येण येन खलजातिरसजि धात्रा
तच्छेष एप कुलिशः स च कालकूटः । स ग्रीष्मचण्डरुचिमण्डलचण्डिमा च
ते च त्रिनेत्रनयनानलविस्फुलिङ्गाः ॥२७॥ एनस्विनः खलजनस्य जनिः किमासीत्
मातुः स किं जठर एव न विप्रलीनः । तं जातमध्यहह दुःसहवंशजाऽपि
नादत्त सरि(ति)सदनादुत जातही ॥२८॥ शौरे ! त्वया चिरमधाकृत एव तावत्
जिह्वासहस्रयुगभाग्विनयानतोऽपि । तेन द्विजिह्वमविनीतमधो विधातु
मुज्झ पां कुशलमस्तु सतां कुलेभ्यः ॥२९॥ नेतुं खलानिह तुलां न हलाहलेन
युक्तं जनाः शतगुणं गहनास्ततोऽमी । प्रातं जगद्भगवताऽपि न भैरवेण
यत्कालकूटमिव जग्रसिरे महोग्राः ॥३०॥ भूयानशिक्षि पिशुनैरशनेर्गुणो यत्
संशोलयन्ति हृदि पापविस्मरन्तः । यः शिक्षितो विषधरादपि सादरं तैः ।
जिह्वाग्र एव नियतं रमते स तेषाम् ॥३१॥