SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ पिशुनपञ्चाशिका अधापि ते नयरहस्यविदां सदस्सु शौर्यादयः षडपि यस्य गुणाः प्रथन्ते । अत्यन्तनिर्गुणतया जगति प्रतीतो दोषैकवागपि शुनः पिशुनः समः किम् ॥११॥ धूमायते धिगयमाश्रयमेव हिंसन् ___ मां सर्वभक्ष इति वैष विगर्हते यत् । अत्यन्तभीलुरतिलोलशिखापदेशात् वैवाहिकोऽपि खलतः खल्लु वेपतेऽमिः ॥१२॥ स्वादीयसीं किल सुधामपि धिक्करोति कान्ताऽधरस्तदिदमाहुरलीकमेव । रागोत्तरं रसयतोऽपि मुहुर्यदेन मद्यापि वाग् विषमयी वदने खलस्य ॥१३॥ धूतेषु देवनपणाय खलः प्रियायाः संशोध्यमेतदपि काञ्चनमुच्चिनोति । पर्वच्छलाच्च पुर एव बहूपकुर्वन् । सर्वस्वमाहरति विश्वसितस्य जन्तोः ॥१४॥ अत्यन्तकर्कशगिरो मलिनात्मकस्य किञ्चित्खरस्य च खलस्य च वैसदृश्यम् । वामोऽपि यदिशति वाञ्छितमर्थमेकः क्लिश्नाति सिद्धिमपरस्तु नयाध्वगानाम् ॥१५॥ को नाम पङ्कजभुवः शुचितावलेपः कृष्णस्य कि धवलयिष्यति की तिराशाः । सर्वज्ञता पशुपतेधिंगरोपि धृष्टै रित्थं सुरोपहसितुः क्व न भीः खलान्नः ॥१६॥ निर्यातयिष्यति ममान्वयवैरमेष भावी पुनर्मदुपबृंहितवित्तभोक्ता । इत्थं खलस्तनयजन्ममहोत्सवेऽपि सम्प्रीयते किमपि किञ्चन शोचतीय ॥१७॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy