SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सर्फिकविना विनिर्मिता पोदापि मजुलमृतुः किल पुष्पजालं हते सतीषु वनराजिषु सक्तिमेत्य । धिक् सप्तमेन ऋतुना कुलटासु तासु प्रारभ्य ते पिशुन एष विषप्रसूनम् ॥४॥ जाने खलस्य जननी प्रतिवेशवेश्म संदीप्य तन्द्रसितदोहदिनी बभूव । उच्छिद्य चूतविपिनानि फलोत्तराणि तन्मूलमृत्कवलनं च किमाचकाङ्क्ष ॥५॥ भूकम्पभीलुकमसक्कणवर्षदन मुद्दामदुर्दिनविमर्दमृद्कृतार्कम् । दिग्दाहभस्मचयचण्डमरुत्प्रपात पर्याकुलं च खलजन्मनि विश्वमासीत् ॥६॥ पिण्याकतः शुनकतो नरकाच्च नील्या(ल्याः) चण्डालतोऽपि च खराल्लकुटाच्च वेधाः । आदाय वर्णततिमग्रचरीमनार्य नामानि तत्तदभिधेयबुधो बबन्ध ॥७॥ नामान्तरेण दहनः पिशुनः प्रजानां ____जाने समुत्तपनहेतुरिवायतीर्णः । सौहार्दवारिपरिषेककथादरिद्रे भद्रेण सप्त विभवन्तु शिखास्तदस्मिन् ॥८॥ अल्पीयसाऽपि मधुरेण शिशोव्यथेति किं पायितः कटुकमेव खलः स्वमात्रा । अद्यापि यत्कटुभिरेव गिरां विपाकैः धिक् सौहदामृतजुषामपि धिक्करोति ॥९॥ स्तन्याय जिह्मरसनः पिशुनो जनन्या प्रायश्चिरं शकदपायितरां खरस्य । येनाधुनाऽपि खरवत् परुषाणि जल्पन् अल्पेतरं(रत ) श्रवणवर्त्म सतां दुनोति ॥१०॥
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy