________________
श्री सोमार्क शिष्य सर्वार्ककविना विनिर्मिता
पिशुनपञ्चाशिका
संपादक : पं० हरिशंकर अं. शास्त्री
[पिशुनपञ्चाशिका नाम काव्यं सोमार्कशिष्य सर्वानाम्ना कविना ललितपधैः व्यरचि इति तु अन्तिमभागे पुष्पिकायां स्पष्टमुट्टङ्कितम् । 'अयं कविः स्वकीयजन्मना कां भूमिमलञ्चकार कदा च' इत्यादिस्तस्य जीवनवृत्तान्तस्तु नाज्ञायि ।
इदं काव्यं पिशुनमुद्दिश्य लिखितम् । यद्यपि अत्र अर्थगाम्भीर्यं तथापि वाचकानां रुचिकरमाह्लादप्रदं च । कविना चात्र काव्ये अतीव सुन्दरा कल्पना अकारि । पिशुनानां चरितं माक्षात् प्रकटीकृतम् । अनेन एतादृशी कल्पना प्रादुर्भवति यत् अयं कविः पिशुनैः अत्यन्तं पीडितो भवेत् अन्यथा एतादृशान् उद्गारान् कथम् उद्विरेत् ?
अस्य काव्यस्य एका एव हस्तप्रतिर्लब्धा या ला-द-भा-सं-विद्यामन्दिरसुरक्षितमुनिश्री पुण्य विजयजीसङ्ग्रहसका प्रकाशितहस्तप्रतसूचौ ५१०७ क्रमाङ्का । साच ख्रिस्त १५ शताब्दयां लिखिता इति कल्प्यते । अस्याः पृथुस्वदीर्घत्वप्रमाणं तु २६.१×११.०-से०मी० परिमितं वर्तते । अस्यां प्रतिपत्रं १८ पङ्क्तयः प्रतिपङ्क्ति च ६५ अक्षराणि सन्ति । प्रायः शुद्धा वर्त्तते । मूलमात्रम् एवास्यां प्रदर्शितम् । मध्ये सुशोभनमप्यस्ति इति शम् । -सम्पादकः ]
गावो जयन्ति कवितुः सवितुश्च तुल्याः कल्याणवर्णमयतां परिशीलयन्त्यः । याः कारणं सुजनवारिजहासवृत्ते
म्लानिं नयन्ति पिशुनोत्पलकाननानि ॥१॥ कण्ठे विषं हृदि तमः शिखिनं च नेत्रे
नेपथ्यजातमपि यो वहति द्विजिह्वान् । भाग्येन केनचिदुपस्थितचन्द्रलेख:
स्वामी समापयतु कोऽपि सतां स तापम् ॥२॥ हेतोर्विनाऽपि विनयच्युतिचापलेन
यः सावलेपमपराध्यति सज्जनेभ्यः । आलिम्पतोऽस्य जनमार्यमवर्णपङ्कः
संकीर्तयामि पिशुनस्य पशोचरित्रम् ॥३॥