________________
शिवभद्र काव्यम्
विहायसम् खम् आकाशं प्लवमानान् अपि । किं कृत्वा दयां विहाय करणा त्यक्त्वा कीदृशेन तेन अभिया निर्भयेन तथा प्रभुणा समर्थन तथा सरोपं यथा स्यात् एवम् अभियान तान् लक्षीकृत्य गतेन । सरोषम् इति मनोविशेषणं व ॥७३॥
अथ सैन्यमभिनदन्तः प्रविश्य कपयोsपास्य तमभिनदन्तः । शुः सह मानेन क्षिप्ता न पदं परस्य सहमानेन ||७४||
शां० ॥ अथ० | अथ अनन्तरम् | लक्ष्मणः अभिनत् भिन्नवान् किं तत् ? सैन्यम् । किं कृत्वा : प्रविश्य प्रवेशं विधाय । क ? अन्तः मध्ये | कस्य ? सैन्यस्य । न न केवलं अभिनत् । कपयः वानरा अपि नेशुः नष्टाः । किं कुर्वन्तः ! अभिनदन्तः शब्दायमानाः । किं कृत्वा ? अपास्य त्यक्त्वा । कम् ? तं लक्ष्मणम् । कीदृशाः मन्तः : क्षिप्ताः तिरस्कृताः । कथम् : सह समम् । केन ? मानेन अहंकारेण अहंकारः अपि क्षिप्तः इत्यर्थः । कथंभूतेन ? न सहमानेन न क्षमता' किं तत् पदम् अवस्थानम् | कस्य ? परस्य शत्रोः ॥७४॥
४७
पु० ॥ अथ एवं निश्चयानन्तरं लक्ष्मणः अन्तः प्रविश्य सैन्यम् अभिनत् विभेद । कपयः अपि तम् अपास्य त्यक्त्वा अभिनदन्तः सर्वनः नदन्तः सर्वतः मिलित्वा नेशुः पलायिताः । कीदशाः ! क्षिप्ता. कोदण्डेन प्रेरितः । केन ! अर्थात् लक्ष्मणेन एव । कीदृशेन ? मानेन चित्तसमुन्नत्या परस्य शत्रोः पदं व्यवसायम् | न सहमानेन अमृष्यमाणेन - पदं व्यवसिति - त्राणम्" इति अमर: [ ३.३.१०० ] ॥ ७४ ॥
नास्ति पुरी स च रावः क्षणादितीव ब्रुवन् पटुः सचरा वः । व्याप निवासवरागं प्रमदानामाक्षिपन्निवाऽऽसवरागम् ॥७५॥
शां०॥ नास्ति। स च रावः शब्दः व्याप व्यानशे । कोदृश: ? पटुः पाटवोपेतः किं कुर्वन्निव ब्रुवन्निव आभापमाण इव । किम् ? न अस्ति । न विद्यते । कस्मात् ! क्षणात् क्षणमात्रेण । का असौ पुरी नगरी किंनूना ! सचरा सजङ्गमा | केषाम् ? वः युष्माकम् । इति एवं प्रकारम् । कं व्याप : निवासवरागं निवामश्रेष्ठपर्वतम् । किं कुर्वन् ? निवासम् आक्षिपन् इव व्यपनयन् इव । कम् ? आसवरागं मरक्तताम् मद्याभिलाषं वा । कासाम् प्रमदानां तच्छ्रवणेनरूपोत्पन्नः ॥७५ ||
१. म० नास्ति ।
१. म० तरुणेन भावेम पत्रेः ।