________________
शिवभद्रकृतम् नसनेन उपलक्षितः इति अर्थः । तथा अमरसमयं देवचिह्नम् अनिमेषत्वादिकम् अक्षि तृतीयं नेत्रं शशिनं चन्द्रं च विनिगुह्य संगोष्य । कीदृशं शशिनम् ? सोमरसमयं मोमलतार परिणामभूनम् । “चन्द्रः हि सोमवल्लोरसस्य परिणतिः" इति श्रुतिस्मृतिचादः । संसितया इति ण्यन्नात् निष्ठा ॥७१॥
इति जवसंगमभीतैः कृता मतिः कषिभिराजिसंगमभीतैः । तस्मिन् समरं हसितैः कदथे यति वैनतेयं समरहसि तैः ॥ ७२ ॥ शा० ॥ किमिति तैः कपिभिः वानरैः मतिः बुद्धिः कृता विहिता । कथम् । इति एवं पूर्वोक्तप्रकारेण । कोदृशैः ? जवसंगमभीतैः वेगसंबन्धमभीतैः प्राप्तैः वेगेन जबेन इनि अर्थः। तथा आजिसंगमभोतैः संग्रामसैहर्षत्रस्तैः । कस्मिन् अस्मिन् लक्ष्मणे कि कुर्वनि कदथेयति निस्तेजयति । कम् ? समरं संग्रामम् कैः ? हसितैः हासैः। तथा वैन लेयेन समरंहसि वैनतेयेन गरुडे समं समानं रंहः वेगः यस्य सः तथोक्तस्तस्मिन् ॥७२॥
पु०॥ इति ० । कपिभिः इति इत्थं तस्मिन् लक्ष्मणे विपये मतिः कृता।का कीदृशैः तैः ? जवसंगं वेगविभातं अभीतैः अभितः प्राप्तैः तथा भाजिसंगमभीतैः युद्धसंगमभीतैः तथा हसिनः लक्ष्मणेन हासविषयीकृतैः । कीदृशे तस्मिन् ? समरं कदर्थयति कदर्थनं कुर्वाणे अल्पत्वेन युद्धे निष्फलीक्रियमाणे तथा वैनतेयेन गरुत्मता समं रह जबः यस्य तथाभूते ।। ७२ ।।। हन्मि बिहायसमेतान् प्लबमानानपि दयां विहाय समेतान् । इति कृतमभियातेन प्रभुणाऽपि मनः सरोषमभिया तेन ॥७३॥
शां०॥ हन्मि० तेन अपि लक्ष्मणेन अपि सरोपं सकोपं मनः कृतं विहितम् । कीदृशेन ? अभियातेन प्राप्तेन कलहाय तथा स्वामिना । तथा अभिया भयरहितेन । कथं गरोपं मनः कृतम् ? हन्मि मारयामि कान् ? एतान् कपीन् किं कुर्वाणान् ! अपि प्लवमानान् अपि गच्छतः । कम् ? विहायसं खम् । अपिशब्दात् भुवि स्थितान् । तथा समेतान् युक्लान् किं कृत्वा ? विहाय त्यक्त्वा दयां करुणामिति अनेन प्रकारेण ॥ ७३॥
पु०॥ त्रिभिः कुलकम् (विशेष कम्) । तेन लक्ष्मणेन अपि इति मनः कृतम् । किम् इति एतान् कपीन् समेतान् संभूय आगतान् हन्मि मारयिष्यामि कीदृशान् ।
१. म० संग्रामसर्वप्रेस्तैः । २. म. नास्ति ।