________________
शिवभद्रकृतम्
तेऽपि सदाना नागा येषामतिवल्लभाः' सदा नानागाः। निरगुर्मनुजानन्तः शरविप एतीति युद्धमनुजानन्तः ॥ ६८ ॥
शां०॥ तेऽपि० तेऽपि वानराः कीदृशाः ? नागा इव करिणः इव नागाः किंभूताः ? सदानाः समदजला मत्ताः इत्यर्थः । निरगुः । निर्गताः केपाम् ? कपीनां सदा सर्वकालं अतिवल्लभाः अतिप्रियाः । के ? नानागाः नानाप्रकार वृक्षाः किं कुर्वन्तः । अनुजानन्तः अभ्युपगच्छन्तः । किम् ? सुद्धं संग्रामम् । कस्माद् ? मनुजानन्तः शरविषः एति इति । मनुजः यद्वा मनुष्यः एव अनन्तः नागः मनुजानन्तः । कीदृश. ? शरविपः शा एव बाण एवं विपं गरः यस्य सः तथाक्तः एति आगछति इति हेतोः ॥६८।।
पु०॥ ते अपि कपयः युद्धम् अनुजानन्तः अङ्गीकुर्वन्तः निरगुः निर्गताः । किम् इति मनुजानन्तः मर्त्यरूपः शेषनागः एति आगच्छति । लक्ष्मणः हि शेपस्य संकर्षणावतारः । कीदृशः ? शराः एव विपं यस्य सः । तथा कीदृशाः ते ? सदाना नागाः इव मत्तहस्तितुल्याः दानं मदः तथा येषां सदा सर्वदा नानागाः नागाः पर्वताः [भति वल्लभाः प्रियाः ॥ ६८ ॥
ऋक्षः साकं जयनै विलम्वितास्यच्छविश्व सा कजवनैः । सेना विश्वा समरं कर्तु प्रसृता विहाय विश्वासमरम् ॥६९॥ शां०।। ऋक्ष० । सा सेना सा पताकिनी विश्वा समग्रा प्रसृता प्रवृत्ता । कथम् ? अरं शीघ्रम् । कि कर्तुम् ? कर्तुम् । कम् ? समरं संग्रामम् । किं कृत्वा ? विहाय त्यक्त्वा । कम् ? विश्वास प्रमादम् । कथं प्रसृता ? साकं सह । कैः ? ऋक्षबलैः भल्लुकसैन्यैः । कीदृशैः ? जवनैः शीत्रैः वेगवतिः। कथंभूता सेना ? विलम्बितास्यच्छविः विलम्बिता अनुकृता आस्यच्छविः मुखकान्तिः यस्यः सा तथोक्ताः कैः कञ्जवनैः पद्मखण्डैः ॥६९॥
पु०॥ सा विश्वा सेना सर्वा वाहिनी अरं शोघं समरं कर्तुं प्रसृता प्रवृत्ता। जवनैः वेगवद्भिः अक्षः भल्लुकैः साकं सह । किं कृत्वा ? विश्वासं विहाय प्रत्ययं त्यक्त्वा । कोदृशो ! कम्जवनैः पमा करैः विडम्बिता अनुकृता आस्यच्छवि: मुखकान्तिः यस्याः सा । तथा जवनैः इति मुम्लुचे काम्यति म्लुच् । प्रसृता इति आदिकर्मणि क्तः ॥६९॥ प्रेक्ष्य च तं ग्रसमानं वपुषा चेतांसि सुरनगाऽग्रसमानम् हरशरमिव तममोघं रघुवृषभं गाङ्गमिव महत्तममोघम् ॥ ७० ॥ १. म० "०मिववल्लभाः" पाठः स्वीकृतः । २. म० 'मपि वल्लभाः"