________________
शिवभद्रकाव्यम्
शां०॥ रम०। सः सुग्रीवः कामी भोगी रागं रक्ततां ववन्ध बद्धवान् । कीदृशम् ! इन्द्रियमुख इन्द्रियाणां चक्षुःप्रभृतीनां सुखं यस्मिन् सः तथोक्तः तम् । तथा अनुपरमम् अगतिविच्छेदं तथा परममुत्कृष्टम् । कथम् ? चिरं बहुकालम् । अनु पश्चात् । किं कारितवान् ! रमयन् स्म रमितवान् । काः ! ताः पूर्वोक्ताः भार्याः । कीदृशीः विलासावतंससस्मरहसिताः विलासावतंसं विधोकशेखर सस्मरं सकामं हसितं हासो यासां ताः । क रमयन् स्म ? रहसि एकान्ते ॥६६॥
पु०॥ इत्थं परस्परानुरागात् प्रवृत्ते [त] प्रबन्धे कामी सुग्रीवः इन्द्रियसुखम् अनु लक्षीकृत्य परमं महान्तं रागं अभिलाषं चिरं बबन्ध कृतवान् इति अर्थः । कीदृशम् ? अविद्यमानः उपरमः विरामः यत्र । किं कुर्वन् रहसि एकान्ते ताः प्रिया रमयन् । कीदृशीः ? 'विलासावतंसानि विलासभूषितानि स्मरहसितानि मन्मथहासाः यासां ताः । 'स्मर' [स्म] शब्दः पादपूरणः यमकार्थत्यात् [इति] न अनर्थकत्वदोषः । यथा 'गात्रमुज्ज्वलतया न खल्लनम्' इति । निपातनात् उपरमशब्दः साधुः ॥ ६६ ॥
शयनैरशनै रुचितैः प्रियागणैर्लम्बिहेमरशनै रुचितैः । अधिक इव सुराऽसुरतः सस्मार न राघवं प्रियासुरासु रतः ॥६७॥
शां०॥ शय०। सुग्रीवः न सस्मार न स्मृतवान् । कम् ? राघवं रामम् । कीदृशः सन् ? रतः आसक्तः । कासु ! प्रियासुरासु प्रिया वल्लभा सुरा मदिरा यासां स्त्रीणां ताः तासु । यद्वा प्रियाः च ताः सुराः च प्रियासुराः [सासु] । कथंभूतः इव ? अधिकः इव उत्कृष्टः इव । कैः ? शयनैः शयनीयैः अशनैः भोजनैः । कीदृशैः । रुचितैः योग्यैः तथा प्रियागणैः कान्तावृन्दैः कीदृशः लम्बिहेमरशनैः काञ्चीकलापैः तथा रुचितैः अभिप्रेतैः दीप्तिमद्भिः इव । केभ्यः अधिक इव ? सुरा. सुरतः देवदानवेभ्यः ॥६७||
पु०॥ सुग्रीवः राघवं न सस्मार न स्मृतवान् । कीदृशः ! शयनैः शय्याभिः उचितैः योग्यैः अशनैः भोजनैः तथा रुचितैः अभिलषितैः वा लम्बिनी] हेमरशना कनकमयी काञ्ची येषां तैः प्रियागणैः दीप्यमानैः कान्तावृन्दैः च । सुरासुरतः देवदानवेभ्यः अपि अधिकः इव स्थितः । तथा प्रिया सुरासुरते मद्यमधुनी यस्य स तथा तस्मिन् न प्रतिबुद्धः ॥६७॥
किं किं चक्रुः इति आह १. म० विलासशेखराणि २. म० नवहेभरसनैः। ३. म. विमलस्वर्णकाञ्चीकलापैः ॥ ४. क्षा० नास्ति ।