________________
४२
शिवभद्रकृतम्
उत्प्रेक्षा । कीदृशः सुग्रीवः ? भोगमनाः विषयासक्तचित्तः तथा चतुरः दक्षः । कि कृत्वा ? प्राप्य लब्ध्वा । हि व्यक्तम् । किं तत् सुखं शर्म । कियन्तं कालं यावत् ? मासान् । कियतः ? चतुरोऽपि नैकम् हौ इत्यपि शब्दार्थः । तथा तु वर्षासत्कान् “कालाध्वनोरत्यन्तसंयोगे" इति कर्मत्वम् । तथा पिहितान् आच्छादितान घनपटेन मेहावस्त्रेण ॥६४॥
पु०॥ कस्मात् वासगृहमत्त(ध्य)स्थित इति चेत् तदा आह-हि यस्मात् चतुरः सुरतकुशलः सुग्रीवः चतुरः मासान् मासचतुष्टयमपि सुखं प्राप्य अनुभूय प्रियाः वल्लभाः न तत्याज यतः भोगे मनः यस्य स तथा । सुखासङ्गेन शरदि अपि कान्ता न त्यक्तवान् इति अर्थः । कीदृशान् मासान् ? घनपटेन मेघरूपवस्त्रोण मेघविस्तारण वा अपिहितान् आच्छादितान् । कीदृशीः प्रियाः ? उज्झितनभोगमनाः त्यक्तान्तरिक्षगतीः मुरस्त्रीः अप्सरसः इव । धनपटेन इति 'विस्तारे पटच् । इति पटच् प्रत्ययः ॥६४॥
उपगुह्य च लालसया रुरुधुई ष्टयागना मदचलालसया । कलशसमस्तन्यस्तं प्रथयन्त्यः प्रेम हृदि समस्तन्यस्तम् ॥६५॥
शां०॥ उप० । तं सुग्रीवम् अङ्गनाः दयिताः रुरुधुः रोधयन्त्यः। कया ! दृष्ट्या चक्षुषा दर्शनेन वा । किं कृत्वा ? उपगुह्य आलिङ्गय । कीदृश्या ? लालसया लम्पटतया तथा मदचलालसया क्षोवताचञ्चलमदया । कीदृश्यः अङ्गनाः ! कलशसमस्तन्यः कुम्भतुल्यकुचाः । किं कुर्वन्त्यः ? प्रथयन्त्यः । किं तत् प्रेम स्नेहम् । कीदृशम् ? समस्तन्यस्तं समस्तं च तत् न्यसतं च । क्व ? हृदि मनसि । हृदये सर्व निक्षिप्तम् इति अर्थः ॥६५॥
पु०॥ न केवलं सः प्रियाः न तत्याज अङ्गनाः अपि लालसया औत्सुक्येन तम् उपगुह्य आलिङ्गय दृष्टया रुरुधुः । कीदृश्या दृष्ट्या रुरुधुः अरुधन् ? मदेन चञ्चला अलसा च तया । कीदृश्यः अङ्गनाः ? [कलशसमस्तन्यः] कलशसमौ कुम्भपृथुलो स्तनौ यासां ताः। तथा हृदि न्यस्तं चित्ते स्थापितम् । समस्त समग्रं प्रेम प्रथयन्त्यः प्रकटीकुर्वाणाः ॥६५॥
रमयन् स स्म रहसि ताः प्रियाविलासावतंस सस्मरहसिताः । इन्द्रियसुखमनु परमं राग कामी बबन्ध चिरमनुपरमम् ॥६६॥ १. Varttika on ५।२ । २९। क्षां० द्वावेत्यविशेषार्थः । २. कलशसमस्तन्यः तम् ।