________________
शिवभद्रकाव्यम् आदित्यसुतत्वात् । कथं साक्षात् आभिमुख्येन ॥६२॥
॥ अथ कपिवचनानन्तरं च सुग्रीवः प्रणिगदतः प्रकर्षण निश्चितं ब्रवाणान् कपोन् न प्रतिबुबुधे न प्रतिबुद्धवान् । साक्षात् सवित्रा सूर्येण निर्मितदेहः उत्पादितशरीरः साक्षात् सूर्यपुत्रः इति अर्थः । कीदृशान् कपीन् ? सवित्रासानि विशिष्टत्राससहितानि अक्षीणि येषां ते तान् । तथा सत् प्रशस्तं मनः येषां ते । तथा सम गृहं संभ्रमेण जतान् संभ्रमेण गृहागतान् इति अर्थ. । सवित्रासाशान् इति "बहुव्रीहो सक्थ्यक्ष्णोः स्वाङ्गात् पच्" [पा. ५. ४. ११३] प्रणिगदतः इति 'नर्गद' [पा. ८. ४. १७] इत्यादिना णत्वम् । समनसः इति अनुनासिकस्य विकल्पितत्वात् जश्त्वमेव ॥ ६२॥
निभृतमतिमाघन्तं भक्ताः कपयोऽप्यजस्रमतिमाद्यन्तम् ।
ददृशुर्न वधूपेतं वासगृहे लब्धसीधुनवधूपे तम् ॥६३॥ __शां०॥ निभृ० । [तं] सुग्रीवं कपयो वानराः कीदृशाः भक्ताः भक्तिपराः । अपि तु न ददृशुः न दृष्टवन्तः । कथम् ? भक्ताः आधन्तं सर्वकालम् । कीदृशम् ? निभृतम् अतिस्वस्थचित्तम् । किं कुर्वन्तम् ? अतिमाद्यन्तम् अतिशयेन मत्ततां गच्छन्तम् । कथम् ? अजस्रम् अनवरतम् । तथा वधूपेतं भार्यायुक्तम् । क ? वासगृहे शयनभवने । कीदृशे ? लब्धसीधुनवधूपे लब्धौ प्राप्तौ मद्यनवधूपौ तत्सुगन्धिद्रव्यसंयोगौ यत्र तत् तस्मिन् मद्यनवधूपयुक्ते इति अर्थः ॥६३॥
पु० ॥ न केवलं सुग्रीवः एतान् न ज्ञातवान् । भक्ताः सेवकाः कपयः अपि तं सुग्रीवं न ददृशुः न दृष्टवन्तः । यतः वासगृहे अजस्र अनवरतं अतिमाधन्तं अतीव हृष्यन्तं तथा आद्यन्तं आङ् प्रश्लेषे पत्र ज्ञेयः । आयन्त पर्यन्तं निभृतमतिं सुखितमतिम् । यतः वधृभिः उपेतः। कीदृशे वासगृहे ? तथा सीधवः आसवाः नवधूपाः च अनङ्गशरादयः यस्मिन् ॥६३॥ मासांश्चतुरोऽपि हि तान् प्राप्य सुख धनपटेन चतुरोऽपिहितान् । तत्याज न भोगमनाः प्रियाः मुरस्त्रीरिवोज्झितनभोगमनाः ॥६॥
शां०॥ मासा। सः न तत्यान न मुमोच । काः प्रियाः भार्याः । कीदृशी: इव ? सुरस्त्रीरिव देवकान्ता इव । कीदृशीः उज्झितनभोगमनाः त्यक्तकामगतीः
१. क्षा० नास्ति। २. क्षा० 'स तथोक्तं' ।