________________
शिवभद्रकृतम् इति तूष्णीं स्थीयते । सः कीदृशः ? यः गां भूमि न त्यजति । कस्मात् चित् अपि न अपमरति इति अर्थः यद् वा गां वाचं न त्यजति । वाचि स्थिर इति अर्थः । यं च भीः भयं व्यजहात् तत्याज । यस्मिन पुरुष धृतिः धैर्य नयः नीतिः गाम्भीर्यं च तिष्ठति इति शेषः ।
विकाराः सहसा यत्र हर्षशोकभयादयः ।।
प्रकाशं नाधिगच्छन्ति तद् गाम्भीर्यमुदाहृतम्" ॥ ] तथा वनजनेत्र: अभ्भोजाक्षः ॥६॥ प्रीतेश्चापेतस्य व्यक्तिकरे भ्रूभङ्गचापे तस्य । अस्ति हि कोपितवान् यः शत्रुः सौमित्रिमद्य कोऽपि तवाऽन्यः ॥६१॥
शां०॥ प्रीते। अतः अस्ति विद्यते । कः अपि कश्चिद् अपि । हे कपिपते ! भवतः शत्रुः अरिः। किंभूतः ? अन्यः अपरः । सः यः अद्य अधुना सौमित्रि लक्ष्मणं कोपितवान् रोपितवान् । हि यस्मात् । तस्य लक्ष्मणस्य भ्रमङ्गचापे भ्रुकुटिधनुषी विद्य(ये)ते । कीदृशे ? व्यक्तिकरे प्राकटचकरे । कस्य ? तस्य एव । कीदृशस्य ? अपेतस्य भ्रष्टस्य । कस्याः ? प्रीतेः हर्षात् ॥६१।।
पु०॥किं च तस्य पुरुषस्य भ्रूभङ्गचापे भ्रविभङ्गो एव धनुषी कीदृशे ? व्यतिषिक्ते मिलिते क्रोधात् । प्रीतेः स्नेहात् अपेतस्य तव अन्यः कः अपि शत्रुः अस्ति यः शत्रुः सौमित्रं लक्ष्मणं कोपितवान् । नूनम् अन्येन तव शत्रुणा कोपितः लक्ष्मणः अत्र आयाति इत्यर्थः । ॥६१॥
अथ च सवित्रा साक्षान्निर्मितदेहः कपीन् सवित्रासाक्षान् । प्रणिगदतः समनसः प्रतिबुबुधे संभ्रमागतान् सम न सः ॥६२॥
शां०॥ अथ । अथ वचनानन्तरम् 'च' समुच्चये। सुग्रीवः न बुबुधे न ज्ञातवान् । कान् कपीन् वानरान् । कीदृशान् ? सवित्रासाक्षान् सवित्रासानि सभयानि अक्षीणि नेत्राणि येषां ते तथोक्ताः तान् । सानसः शोभनचित्तान । किं कुर्वतः ? प्रणिगदतः त्रुवतः । तथा संभ्रमागतान् भययातानु । किं तत् ? सम गृह सुग्रीवस्य । कथंभूतः सः ? निर्मित देहः निमादितशरोरः । केन ? सवित्रा रविगा
१. पु० "व्यतिषिक्ते" इति पाठः स्वीकृतः । २. म० नास्ति । ३. म० नास्ति ।