________________
शिधभद्रकाव्यम् शां०॥ यात०। सः कपिपतिः सुग्रीवः इदं वक्ष्यमाणं वचः'प्रोक्तः प्रकर्षण भणितः । कैः ? तैः वानरैः । कीदृशैः ? यातैः । 'च' समुच्चये । कथं प्रोक्तः ! स्वादरतः स्वादरेण 'जय'-'जीव'-इत्यादिपूर्वकम्' । कीदृशः ? अन्तस्थः निकटवर्ती मध्यवर्ती वा । तथा सुखास्वादरतः सुखानुभवासक्तः । दयितवधूतन्त्रः प्रियदयितापरिग्रहः प्रियदयिताधीनः वा । कथं प्रोक्तः ! संभ्रमावधृतम् । कैः ? भयकम्पितैः तैः । कीदृशैः ? जस्तैः भीतैः ॥
पु० ॥ स कपिपतिः । सुग्रीवः कपिभिः त्रस्तैः भीतैः इदं वक्ष्यमाणं वचः प्रोक्तः । 'च' [इति] चकारः पूर्वक्रियासमुच्चये । कथम् ? संभ्रमेण यद् अवधूत कम्पः - भावेक्तः - तेन सहितः सपंभ्रमावधृतं यथा स्यात् । कीदृशः प्रीतेः प्रीत्या । स्वादरत: सुष्टु आदरात् च । अन्तस्थः अन्तःपुरस्थः । तथा सुखास्वादे रतः । आसक्तः दयिता वधूः एव तन्त्रम् च परिच्छदः प्रधानं वा यस्य स तथा ॥५९॥
त्यजति न यो गाम्भीर्य व्यजहाद्यस्मिन् धृतिर्नयो गाम्भीर्यम् ।
सोऽद्य वनजनेत्रस्ते पुरमेति किमास्यते वनजने त्रस्ते ॥३०॥
शां०॥ त्यज०। सः लक्ष्मणः । अद्य अस्मिन् अहनि । ते तव । पुरं नगरम् एति आगच्छति, हे सुग्रोव ! कीदृशः ? वनजनेत्रः पत्नलोचनः । अतः किम् आस्यते स्थीयते भवता ? के सति ? वनजने वानरजने सति । कीदृशे ! त्रस्ते भीते । यो लक्ष्मणः गां वाचं न त्यजति, मृषा न भाषणात् । सत्यं वदति इत्यर्थः । तथा यं भीः भयं व्यजहात् त्यक्तवती । यस्मिन् धृतिः संतोषः, नयः नीतिः, गाम्भीर्य च गम्भीरता" च, वियते इति त्रस्ताः वानराः सुग्रीवं प्रोक्तदन्तः इत्यर्थः ॥६॥
पु० ॥ कि प्रोक्तः इति आह । स तादृशः पुरुषः । ते तव पुरम् अद्य इदानीम् एति आगच्छति । वनजने वनस्थितकपिलोके त्रस्ते सति । किमास्येत किम् १. क्षा० ।
२. म. 'भाषितः । ३. म० 'पीते।
४. क्षा० 'मुस्वादरेण' । ५. क्षा० नास्ति
६. म० नास्ति । ७. म. 'पद्मनेत्रः पद्मलोचन' ।
८. म० नास्ति । १. क्षा० 'मृषाभाषणामध्यं' ।
१०. म० गम्भीरेण ।