________________
शिवभद्रकृतम्
प्रेक्ष्य अवलोक्य । 'च' समुच्चये । किम् ? पूर्वोक्तमिति गम्यते । कस्मात् पेक्ष्य ? नगात् पर्वतात् । किं कुर्वतः रसतः शब्दायमानान् । कीदृशाः हरयः ? ताम्रतरास्या रक्ततराननाः। तथा चलाक्षाः चञ्चलनेत्राः' । कस्मात् " ? लाक्षारसत' लाक्षारागात् ॥५॥
पु०॥ प्रेक्ष्य लक्ष्मणं दृष्ट्वा च हरयः कपयः नगात् पर्वतं परित्यज्य यद्वा नगात् प्रेक्ष्य इत्यन्वयः । इति तद्वनं अभूषयन् इव । इति किम् ? मरुन्निवहरयो वात्याकल्पः एषः को नु इति । नु शब्दः वितर्के । कीदृशाः कपयः ? लाक्षारसतः अलक्तद्रवात् अपि ताम्रतरास्या रक्ततरमुरवाः । तथा रसतः क्रोधात् वा चलाक्षाः तरलदृष्टयः । नगात् इति ल्यब्लोपे कर्मणि पञ्चमी ॥५७॥ किंच
वेगं हे तुरगाणां जयन्नसावेति भङ्गहेतुरगानाम् । धनुषा सह साध्वंसः इति तन्मनसामभूच्च सहसा ध्वंसः ॥५८॥
शां०॥ वेगं०। अभूत् बभूव । 'चः' समुच्चये । कः असौ ? ध्वंसः भयम् कथम् ? सहसा शीघ्रम् । केषाम् ? तन्मनसाम् वानरचेतसां यद्वा वानराणाम् । कीदृशाम् तन्मनसां तस्मिन् लक्ष्मणे मनः चेतः येषाम् ते तथोक्ताः तेषाम् । कथं ध्वंस: अभूत् । 'हे वानरा असौ अयं कश्चित् एति आगच्छति' [इति । कीदृशः ? भङ्गहेतुः भङ्गजननः । केषाम् ? अगानां वृक्षाणाम् । किं कुर्वन् ? जयन् अभिभवन् । कम् ? वेगं जवम् । केषाम् ? तुरगाणाम् हयानाम् । तथा धनुषा सह चापेन युक्तः । तथा साध्वंसः प्रशस्तः स्कन्धः इति अनेन प्रकारेण ॥
पु० ॥ इति इत्थं तन्मनसां लक्ष्मणगतचित्तानां सहसा शीघ्र ध्वंस: धैर्यभ्रंशः अभूत् । चकारः पूर्वक्रियासमुच्चयार्थः इति । कथं भोः तुरगस्य घोटकस्य वेगं क्षिपन् न्यक्कुर्वन् असौ धनुषा सह पतति आगच्छति अगस्य वृक्षस्य भङ्गहेतुः वेगेन वृक्षान भञ्जन् इत्यर्थः तथा साध्वंसः साधू उन्नतकठिनौ अंसौ यस्य स तथा हे इति परस्य आमन्त्रणम् ॥५८॥
यातैश्च स्वादरतः सोऽन्तस्थः कपिपतिः सुखास्वादरतः ।
दयितवधूतन्त्रस्तैः प्रोक्त इदं संभ्रमावधूतं त्रस्तैः ॥५९॥ १. म० 'चञ्चलावेशः ।
२. क्षा० 'कस्मात्सकाशात् च' ३. त्यब्लोपे कर्मण्यधिकरणे च [वा. १५७४-१४७५] १. म० 'चित्तम्' ५. म० नास्ति ।
६. म० 'सह' ७. प० 'प्रीतेश्च' इति पाठः स्वीकृतः ।