________________
39
शिवभद्रकाव्यम् शुचा शोकेन च अपतत् । कीदृशः ? आलम्बलतया आश्रितया वल्ल्या सहितः । तथा तं लक्ष्मणं सर्ज वा वीक्ष्य आलोलतया व्याकुलत्वेन लतया तमालः सभयम् इव आलिङ्गितः । अबला हि भयेन पुरुषं गाढमालिङ्गति इत्युत्प्रेक्षा ॥५५॥
त्रस्तो मत्तरुतोऽयं विहगगणस्त्यजति कान्तिमत्तरुतोयम् ।
इति वानानिलयोऽगः प्राक्रोशदिवाऽऽप्तपृथुगुहानिलयोगः ।।१६॥
शां०।। त्रस्त० । किं च त्यजति मुञ्चति । कः अमौ ? अयं प्रत्यक्षः । विगगणः पक्षिवृन्दम् । कीदृशः त्रस्तः भीतः । मत्तरुनः मधुरस्वरः । किं तद्' त्यजति ? कान्तिमत्तरुतोयं शोभायुक्तं वृक्षपानीयं यद्वा [कान्तिमन्तः तरवः कान्तिमत्तरवः तेषां तोयं कान्तिमत् ] तरुतोयम् । कीदृशम् ? कान्तिमन् शोभावत् इति पूर्वोकप्रकारेण । प्राक्रोशत् इव परुषेण चुक्रोश इव । कः असो ? अगः गिरिः । कीदृशः वानरनिलयः. प्लवगाश्रयः । किंभूतम् ? आप्तपृथुगुहानिलयोगः प्राप्तविस्तोर्णदरीकः अनिलयोगः वायुसंबन्धः यस्य सः ।.५६॥
पु०॥ इति हेतोः । वानरनिलयः कपीनाम् समयः आगः शनः किष्किन्धः प्राक्रोशत् आक्रन्दत् इव । कीदृशः ? आप्तः प्राप्तः । पृथुः महान् गुहामु अनिलेन वायुना योगः संगमः यस्य सः । वायुपूर्णगुहत्वात् । प्राक्रोशत् इव इति उत्प्रेक्षा । किमिति मत्तरुतः मदनेन शब्दायमानः विहगगणः पक्षिसंधः । त्रस्तः सन् कान्तिमत् शोभनम् । तरतोयं वृक्षाः पानीयम् च । त्यजति । इति शब्दः हेतौ । तरुतोयम् इति समाहारे एकत्वम् ॥५६॥
प्रेक्ष्य च लाक्षारसतः ताम्रतरास्या नगाच्चलाक्षा रसतः।
एष मरुन्निवहरयः किंश्चिदिति तद्वनमभूषयन्निवहरयः ॥५७॥
शां०॥ प्रेक्ष्य । हरयः वानराः तद्वनं तस्य गिरेः वनं वृक्षवृन्दं यद्वा वनमरण्यमभूषयन् इव अलंकृतवन्त इव किंचिदिति । यतः,"किम् एप: प्रत्यक्षः । मरुन्निवहरयः वायुसंघातवेगः ।" तत्किम् अन्यत् ? किमपि इति । कि कृत्वा ! १ म० 'न'।
२, क्षा० कान्तिमत्तर' ३. क्षा. 'वृक्ष" ।
१. क्षा• 'पूर्व प्रकारेण'। ५. क्षा० 'प्रकर्षेण' ।
६. क्षा० 'वायुसंघा'। ७. क्षा. 'किस्विदिति' पाठः स्वीकृतः । ८. म. नास्ति । ९. क्षा. 'अभूषन्' ।
१०. क्षा. 'किविकी' । ११. म० मास्ति ।
१२. क्षा० मरुन्निवहरयो । १३. म० 'वायुसंघातमेदः' ।
१४, क्षा० 'स्विकिंवा ।