________________
शिवभद्रकृतम् तृणाकुररागाद्विरताः शष्पाभिलापनिवृत्ताः । तथा नागानां क्रोधाग्निः कोटरेषु सन् विद्यमानः लानः ददृशे । कीदृशाम् ? सन्ना वेष्टिताः अगाः वृक्षाः यैः तेषाम् ॥५३॥
उदभूततरङ्गत्वादभजत्तीराणि विहलतरं गत्वा । निपतितचित्रस्तवकं भ्रान्तक्रौञ्चं जलं क्वचित्त्रस्तवकम् ॥५४॥
शां०॥ उद्भू । जलम् उदकम् । अभजत् सिपेवे । कानि ? तीराणि तटानि । कुतः उद्भूततरङ्गत्वात् उच्छलितकल्लोलत्वात् । किं कृत्वा ? गत्वा प्राप्य । कथम् ? विहलतरं चञ्चलतरम् । कीदृशम् जलम् ? निपतितचित्रस्तबकं निपतिताः स्रस्ताः चित्रा नानारूपाः स्तवकाः पुष्पगुच्छाः यस्मिन् तत् तथोक्तम् । तथा भ्रान्तक्रौञ्चं चलितक्रौश्चम् । तथा त्रस्तवक भीतबकोटम् । क्व ? क्वचित् प्रदेशे ॥५४॥
पु०॥ उद्वेगेन जलं तीराणि अभजत् । किं कृत्वा ? विह्वलतरङ्गत्वात् । व्याकुलतरङ्गत्वेन विह्वलतरं यथा स्यात् तथा [गत्वा] । कीटक् जलम् निपतितचित्रस्तबकं निपतिताः विचित्राः स्तबकाः पुष्पपल्लवगुच्छा यत्र । तथा भ्रान्तक्रौचं भ्रान्ताः क्रोच्चाख्याः पक्षिगणाः यत्र । क्यधिच्च त्रस्ताः बकाः बकोटाः यत्र ॥५४॥
भग्नं सालं बलतः सोऽन्यपतच्छुचेव सालम्बलतः। वीक्ष्य तमालोलतया सभयमिवालिङ्गितस्तमालोलतया ॥५५॥ शां०॥ भग्नं। शुचा इव शोकेन इव अपतत् पतितः । कः असौ ? सर्ज: क्षविशेषः । कथम् ? अनु लक्षीकृत्य पश्चाद् वा । कम् ? शा(सा)लम् । कीदृशम् ? भग्नम् । केन ! बलतः लक्ष्मणशक्तया । कीदृशः सालम्बलतः । सहालम्बाभिः आलम्बिनोभिः लताभिः वर्तते यः सः तथा । तं सर्ज वीक्ष्य विलोक्य । कया ? कतया अशोकचम्पादिकया व्रतत्या वा आलिङ्गितः आश्लिष्टः । कः असौ ! तमालः वृक्षविशेषः । कया ? आलोलतया चञ्चलतया । कथमिव ? समयमिव सत्रासमिव उत्प्रेक्षा ।
पु०॥ बलतः बलेन । भग्नं सालं असनकम् अनु । सः असनकवृक्षः १. पु० 'विह्वलसरमत्वात् पाठः स्वीकृतः २. क्षा० 'चलित कुक्कुट' ३. क्षा० 'बलयो (तो) १. क्षा० 'सतोक्तः' ! ५, क्षा० 'सत्रासमिषोत्प्रेक्ष्य' ।