________________
शिवभद्रकाव्यम् व्याघ्रास्तत्रसुरभयः सिंहोऽभ्यनदत जवाच्च . तत्र सुरभयः। कुसुमैः साकं पवनाः सरितश्चक्रुः क्षणेन साकम्पवनाः ॥५२॥
शां०॥ व्याघ्रा०। तथा व्याघ्राः पुण्डरीकाः तत्रसुः भीताः । तथा सिंहः अभयः भयरहितः अभ्यनदत् भृशं नदितवान् । तथा तत्र प्रदेशे जवात वेगात् पवनाः चक्रः कृतवन्तः । कीदृशाः ? सुरभयः सुगन्धयः । तथा साकं सहिताः । कैः ? कुसुमैः पुष्पैः । काः चक्रुः ? सरितः नदीः । कीदृशः ? साकम्पवनाः साकम्पानि कम्पयुक्तानि वनानि तरुवृन्दानि यास ताः । केन ? क्षणेन मुहूर्तेन ॥५२॥
पु०॥ तत्र वने व्याघ्राः शार्दूलाः तत्रसुः भीता इव ऊचुः । सिंहः भयशून्यः अभ्यनदत जगजे । पवनाः वायवः च जवात् रभसेन(सात्) हेतोः । क्षणेन शीघ्र सर्वाः [सरितः] साकं युगपद् एव साकम्पवनाः चक्रुः । सह आ समन्तात् कम्पेन वर्त्तते इति साकम्पं तादृशं] वनं तोरवनं जलं वा पयः यासां ताः । तथा कीदृशाः पवनाः ? कुसुमैः सुरभयः सुगन्धयः ॥५२॥
नलिनी द्रुतकुरराऽगात् क्षोभं चिरता मृगास्तृणाङ्कुररागात् ।'
ददृशे सन्नागानां क्रोधाग्निः कोटरेषु सन्नाऽगानाम् ॥५३॥ शां०॥ नलि०। अगात् जगाम | कम् ! क्षोभं चलनन् । का असौ ! नलिनी पद्मिनी । कीदृशी ! द्रुतकुररा चलितपक्षिविशेषा लक्ष्मणगमनेन । तथा विरताः निवृत्ताः । के ? मृगाः हरिणाः कस्मात् ? तृणाकुररागात् तृणप्ररोहाभिलापात् । तथा ददृशे दृष्टः । कः असौ ! क्रोधाग्निः कोपवह्निः । केषाम् ! सन्नागानाम् शोभनसर्पाणाम् । केषु ? कोटरेषु छिद्रेषु । केषाम् ! सन्नागानाम् सन्नाः भग्नाः अगा वृक्षाः तेषाम् ॥५३॥
पु०॥ किं च नलिनी पद्मिनी क्षोभमगात् गता । कोदशी ! द्रुतकुश्रा:(कुरराः) पलायिताः कुत्राः(कुररा) उत्क्रोशा यस्याः सा तथा मृगा हरिणादयः च
१. स+आकम्पवनाः साकम्पानि वमानि यासाम् ताः। २. म० "सह" अस्ति । ३. क्षा० "निकम्पनयुक्तानि" अस्ति । ४. दुतकुरराऽगात् । ५. तृणांकुररागात् । ६. सन्नागानाम् अथवा सन् मागानाम् । ७. सन्नाऽगानाम् । ८. पु० "द्रुतकुत्राः” इति पाठः स्वीकृतः।