________________
शिवभद्रकृतम्
कीदृशम् । प्रसृतं' विसृतम् । असा असहनीयम् । कस्य ? अन्यस्य शत्रोः तथा सरोषविष कोपविषसहितम् । कीदृशं तम् ? क्रोधेद्धमदकरीच्छायातं क्रोधेद्वस्य कोपदीतस्य मदकरिण इव गन्धहस्तिनः इव इच्छया स्वेच्छया यातं गमनं यस्य स तथोक्तः तम् । यथा कोधदीप्तः मत्तः हस्ती वृक्षादीन् भञ्जन् गच्छति तथा अयमपि इत्यर्थः सकोपत्वात् ।। ५० ॥
पु०॥ तं लक्ष्मणं अन्यस्य त्रासकरी भङ्गकरी छाया कान्तिः भेजे प्राप । कीदशम् ? भृकुटिविषम यथा स्यात् । न्यस्य विक्षिप्य प्रसृतं प्रचलितम् । तथा असा सोढुं अभिभवितुम् अशक्यम् । रोपः एव विपं तेन सह वर्तमानम् । क्रोधेन इद्धः दीप्तः यो मदप्रधानः करी हस्ती तस्य इव इच्छायातं स्वैरगमनं यस्य तम् । ध्रुवः कुटिः कौटिल्यम् "इको हूस्खोऽङ्यो" इति हूँस्वः । ५० ॥
त्वरितं च क्रान्तस्य प्रमुखायातोजितारिचक्रान्तस्य वेगो जघोरस्यः स्फुटमरुजद् तद्वनमदूरज घोरस्य ॥५१॥
शां० ॥ त्वरि । त्वरितं शीघ्रम् । क्रान्तस्य चलितस्य कृतपादविक्षेपस्य लक्ष्मणस्य संबन्धी वेगः जवः अरुजत् भग्नवान् । किम् ? तदनं तरुवृन्दम् । कोहशम् ! अदरजं आसन्नजातम् । कीदृशः वेगः ? जयोरस्यः जङ्खोरसोः भवः । कथम् अरुजत् ? स्फुटं प्रकटम् । कीदृशस्य लक्ष्मणस्य ? प्रमुखायातोजितारिचक्रान्तस्य सम्मुखागतबलिष्ठशत्रुवृन्दनाशकस्य । तथा घोरस्य भयानकस्य ।
पु०॥ घोरस्य । रौद्रस्य लक्ष्मणस्य जघोरस्यः । जङ्घोरसि भवः जवः वेगः अदरजं निकटवर्तिनं वनं काननं स्फुट निश्चितं अरुजत् बभञ्ज । चकारः पूर्वक्रियासमुच्चये । कीदृशस्य ? त्वरितं शीघ्र क्रान्तस्य चलितस्य । तथा प्रमुखेन सम्मुखेन आयातस्य [आ]गतस्य अर्जितस्य प्रबलस्य अरिचक्रस्य शत्रु[संघातस्य । ५१ ॥
१. क्षा० 'प्रभृति' । २. इको इस्वोऽच्यो गालवस्य । पा. ६. ३.६१ । ३. म० 'वलितस्य'। १. म 'कृतपादाविक्षेपस्य' । ५. म० 'भवम् "। ६. क्षा० सैमुखागतिवलज्यशवृन्दनाशकस्य ।