________________
द्वितीय आश्वासकः अथ शुभचापगुणेषु स्थिरधी:र्ये परस्य चापगुणेषु । बिभ्रदगच्छमानं स्तनं विहायावनेरगच्छदानम् ॥४९॥
शां०॥ अथ०। अथ रामप्रेषणानन्तरं लक्ष्मणः अगच्छत् गतवान् । कीदृशः ! शुभचापगुणेषु चारुधनुमौंर्वीबाणस्तथा स्थिरधीः अचलबुद्धिः । क ? वीर्ये विक्रमे । किं कुर्वन् ? बिभ्रत धारयन् । कं ? मानम् अहंकारम् । केपु ! अपगुणेषु अपराधिषु । कस्य ? परस्य शत्रोः । चः समुच्चये । किं कृत्वा अगच्छत् ? विहाय त्यक्त्वा । कम् ? स्तनमिव स्तनम् गिरिम् ऋष्यमूकम् । कीदृशम् ! अगच्छद्मानम् अगा वृक्षाः छमानः आच्छादका यस्य स तथोक्तस्तम्। यद् वा अगच्छन्मानं गिरिव्याजम् । कस्याः स्तनम् ? अवनेः भुवः ॥ ४९ ॥
पु० ॥ अथ रामविसर्जनानन्तरं लक्ष्मणः अगच्छत् । अगच्छमानम् पर्वतव्यपदेशभाजम् अवनेः स्तनं भुवः कुचं विहाय इति उपमालंकारः भूस्तनोपमं माल्यवन्तं त्यक्त्वा इत्यर्थः । शुभाः चापगुणेषवः धनुर्मीींशराः यस्य । तथा वीर्ये स्थिरधीः निश्चितबुद्धिः तथा परस्य च सुग्रीवस्य अपगुणेषु दुर्गुणेषु मानं क्रोधं बिभ्रत् धारयन् । चकारः विशेषणानां समुच्चये । बिभ्रत् इति । "नाभ्यस्ताच्छतुः" [पा. ७. १. ७८] इति न नुमागमः । अगच्छदिति "मनुनासिकस्य विकल्पितत्वात् तदभावे जश्त्वमेव ॥४९।।
भ्रकुटिविषमं न्यस्य प्रसृतमसा सरोपविषमन्यस्य । त्रासकरीच्छाया तं भेजे क्रोधेद्धमदकरीच्छायातम् ॥५०॥
शां०॥ भूक ०। तं लक्ष्मणम् । छाया शोभा कान्तिः । । कीदृशी ! त्रासकरी भयकारिका । कस्य ? अन्यस्य रिपोः भेजे सि पेवे । किं कृत्वा ? न्यस्य रचयित्वा । कम् ? भ्रकुटीविषमं भ्रकुटिकौटिल्यम् । भावप्रधानत्वात् निर्देशस्य ।
१. म० 'अपणगुणेषु' । २. म० मास्ति । ३. म० 'छदकाः' ४. म० 'तथोक्तः' । ५. यरोऽनुनासिकेऽनुनासिको वा [८.४.४५] इति वानुनासिकः । ६. म. नास्ति ।