________________
ओक्टोबर - २०१९
ये त्वां जगन्नाथ ! जनाः प्रभात उत्थाय चित्तोद्यमतो नमन्ति । ते स्तम्भनाधीश ! तव प्रसादाद् विश्वत्रयीराज्यरमां लभन्ते ॥२॥ जिनेन्द्र ! मुक्तिं समलंचकार भवानिहाशापरिपूरणं कः । करोति भक्त्या नमतां जनानां मन्ये स च प्राभव एव भावः ॥३॥ त्वबिम्बदत्तेक्षणयामलस्य जनस्य ते भावयतः स्वरूपम् । एकाग्रचित्तस्य च पार्श्वदेव ! त्वमेव तेनेहितदायकोऽसि ॥४॥ मूर्तिस्तवेष्टे तरणेः समाना तमस्तमोध्वंसनसावधाना । विकाशयन्ती भविकाम्बुजानि संशोषयन्ती दुरितापगाम्भः ॥५॥ स्वामिन् ! ममानन्दभरस्तु तादृशो, जायेत यादृग् गदितुं न शक्यते । त्वद्दर्शनाच्चक्रचकोरबर्हिणां मार्तण्डशीतांशुघनेक्षणादिव ॥६॥ रत्नाकरः क्षारजलः शशाङ्कः साङ्क: सतापस्तपनः सुराद्रिः । कठोरभावो गतचित् सुरद्रुः कथं क्षमस्तैर्जिन ! आश्वसेने ! ॥७॥ उत्तम्भनः स्तम्भनपार्श्वदेव ! स्खलत्पदस्याहनि वा क्षपायाम् । मम त्वमेवासि - यत्र तत्र, प्रसद्य तद् देहि करावलम्बम् ॥८॥ माता पिता भ्रातृजनस्त्वमेव सखा गुरुः स्वाम्यकरस्त्वमेव । ममाऽपहर्ता विपदस्त्वमेव, श्रीपार्श्व ! भूयाः शरणं त्वमेव ॥९॥ शिरोऽक्षिदन्तश्रवणौष्ठकण्ठ-जिह्वाभुजाद्यङ्गविशेषजा माः । नश्यन्ति ते दर्शनतस्तवाशु, स्वामिन् ! मृगारेश्च यथा मृगाद्याः ॥१०॥ एवं स्तुतः प्रभुः पार्श्वः पार्श्वचन्द्रेण भक्तितः । स्तम्भनाख्ये महातीर्थे, चिन्तितार्थप्रदः सदा ॥११॥
इति श्रीस्तम्भनाधीशश्रीपार्श्वजिनस्तवनम् ॥
साध्वीश्री अजायबदे पठनाय ॥