________________
अनुसन्धान-७७
ह.प्र. परथी आ स्तोत्रोनी नकल उतारी राखेली, ते तेमणे (जेरोक्स नकल) मोकलेली, ते परथी आ सम्पादन यथामति कर्यु छे. क्षति रही होय तो शक्य छे. फूटनोटमां टिप्पनक तरीके मूल कर्ताए करेल टिप्पणी छे, तो बीजी नोटमा जे ते प्रयोगना सूत्रक्रमाङ्क सम्पादक द्वारा नोंधवामां आव्या छे.
___वाचकशीलशेखरगणिविरचिताः सिद्धहेमव्याकरणकतिपयोदाहरणमयाः स्तवाः ।
॥ श्रीआदिदेवस्तवः ॥
॥ प्रथमाऽध्यायस्य प्रथमः पादः ॥ परमात्मनमाद्यं त-महंकारस्थितं स्तुवे । सिद्धिः स्याद्वादतो येना-ऽसाधि लोकान्तसंस्थिता ॥१॥ महाव्रतानि(५) तत्त्वानि(९) जीवस्थानानि(१४) च प्रभुः । हुस्व(५)-दीर्घ(९)-स्वर(१४)मिता - न्युपकृत्यै सदस्यवक् ॥२॥ आत्थ सन्ध्यक्षराऽन्तस्था, सङ्ख्या(२३) धर्मभिदः प्रभो! । समान(१०)-नामि(१२) मानाश्च, साधुधर्म(१०)-तपो (१२)-भिदः(२२) ॥३॥ भो! गुरुर्व्यञ्जन(३३)मिता-शातनाः प्रोज्झ्य सेव्यताम् । वर्ग(५)प्रमान् प्रमादांश्च, सदाऽप्यादिजिनोऽर्च्यताम् ॥४॥ देवान् धुट(२४)सङ्ख्ययाधीशो-पसर्गान्(२०) घोषवान्(२०) मितान् । त्वमघोष(१३)प्रमाणानि, क्रियास्थानानि(८) चोक्तवान् ॥५॥ चित्तं दिव्य॑ति नाऽऽप्तेषु, भवदीयवचस्सु नः । ब्रह्मीयति तमो(१२)भास्वन्, मरुत्वद्भिर्नमस्कृताः ॥६॥
टिप्पनकम् : १. दिवमिच्छति = दिव्यति । 'अमाव्यः' (३।४।२३) क्यन्प्र० । २.
__ प्राप्तेषु । ३. ब्रह्मणीवाऽऽचरति । 'आधाराच्चो०' (३।४।२४) क्यन्प्र० । श्लोकः : १. सूत्राङ्कः १।१।१-३ । २. सू० ४,५ । ३. सू० ६-८, १५ । ४. सू०
१०, १२ । ५. सू० ११, १३, १४, १७ । ६. सू० २१-२३ ।