________________
अनुसन्धान-७६
६४ प्रकारी पूजानां काव्यो ॥ अथ श्रीमत्तपागच्छाचार्यश्रीविबुधविमलसूरिविरचितम् ।। ॥ अष्टप्रकारपूजागर्भितश्रीजिनेश्वराष्टकम् ॥
॥ द्रुतविलम्बितवृत्तम् ॥ जिनपतेर्वरगन्धसुपूजनं, जनिजरामरणोद्भवभीतिहत् । सकलरोगवियोगविपद्धरं, कुरु करेण सदा निजपावनम् ॥१॥ सुमनसां गतिदायिविधायिनां, सुमनसां निकरैः प्रभुपूजनम् । सुमनसा सुमनोगुणसङ्गिना, जन! विधेहि निधेहि मनोऽर्चने ॥२॥ क्षितितलेऽक्षतशर्मनिदानकं, गणिवरस्य पुरोऽक्षतमण्डलम् । क्षतजनिर्मितदेहनिवारणं, भवपयोधिसमुद्धरणोद्यतम् ॥३॥ भवति दीपशिखापरिमोचनं, त्रिभुवनेश्वरसद्मनि शोभनम् । स्वतनुकान्तिकरं तिमिरं हरं, जगति मङ्गलकारणमान्तरम् ॥४॥ शिवतरोः फलदानपरैर्नवै-वरफलैः किल पूजय तीर्थपम् । त्रिदशनाथनतक्रमपङ्कजं, निहतमोहमहीधरमण्डनम् ॥५॥ अगुरुमुख्यमनोहरवस्तुनः, स्वनिरुपाधिगुणौघविधायिनः । प्रभुशरीरसुगन्धसुहेतुना, रचय धूपनपूजनमर्हतः ॥६॥ सुरनदीजलपूर्णघटैर्घनै-घुसृणमिश्रितवारिभृतैः परैः । स्त्रपय तीर्थकृतं गुणवारिधि, विमलतां क्रियतां च निजात्मनः ॥७॥ अनशनं तु ममास्त्विति बुद्धितो, रुचिरभोजनसञ्चितभाजनम् । अनुदिनं विधिना जिनमन्दिरे, शुभमते! बत ढौकय चेतसा ॥८॥ अष्टप्रकारां मुनिनाथपूजां, यो देहधारी विदधाति नित्यम् । अर्हत्पदं प्राप्य स याति मुक्ति, तत् पूजय त्वं विबुधेश्वरेशम् ॥