________________
सप्टेम्बर - २०१७
श्रीजैत्रसूरिकृतं श्रीवीतरागस्तवनम् ॥ शान्तं शिवं शिवपदस्य परं निदानं सर्वज्ञमीशममलं जितमोहमानम् । संसारमारवपथाद्भुतनिर्जरागं
पश्यन्ति पुण्यरहिता नहि वीतरागम् ॥१॥ अव्यक्तमुक्तिपदपङ्कजराजहंसं विश्वावतंसमनधैर्विहितप्रशंसम् । कन्दर्पभूमिरुहभञ्जनमत्तनागं पश्यन्ति० ॥२॥ दुःकर्मभीतजनताशरणं सुरेन्द्रैः निःशेषदोषरहितं महितं नरेन्द्रैः । तीर्थङ्करं भविकदापितमुक्तिभागं पश्यन्ति० ॥३॥ दान्तं नितान्तमतिकान्तमनन्तरूपं योगीश्वरैः किमपि संविदितस्वरूपम् । संसारनीरनिधिमन्थनमन्दरागं पश्यन्ति० ॥४॥ संसारनीरनिधितारणयानपात्रं ज्ञातैकपात्रमतिमात्रमनोन्यगात्रम् । दुर्वारमारघनवातनिशातनागं पश्यन्ति० ॥५॥ दारिद्रदुःखतरदावदुरन्तनीरं मायामहीस्फुटविदारणसारसीरम् । वाणीतरङ्गनवरङ्गमहातडागं पश्यन्ति० ॥६॥ कल्याणवल्लिवनपल्लवनाम्बुवाहं त्रैलोक्यलोकनयनैकसुधाप्रवाहम् । सिद्ध्यङ्गनावरविलासनिबद्धरागं पश्यन्ति० ॥७॥ कल्याणकीरविहिताश्रयकल्पवृक्षं ध्यानानलज्वलितमानमदातिकक्षम् । नित्यं क्षमाभरधुरन्धरशेषनागं पश्यन्ति० ॥८॥ श्रीजैत्रसूरिविनतक्रमयुग्मने(मे?)नं लीलाविनिर्दलितमोहनरेन्द्रसेनम् । [लीला] विलचितभवाम्बुधिमध्यभागं पश्यन्ति० ॥९॥
श्रीवीतरागस्तवनम् ॥
श्रीअम्बिकास्तवः ॥ ॐ महातीर्थरेवंतगिरिमण्डने जैनमार्गस्थिते विघ्नभीखण्डने । नेमिनाथांहिराजीवसेवापरे त्वं जयाऽम्बे ! जगज्जन्तुरक्षाकरे ॥१॥