________________
ओक्टोबर-२०१६
अवचूर्णि:- हे विलसत्सत्प्रणिधान !- विलसद्- विलासयुक्तं, सत्शोभनं यत् प्रणिधानं- चित्तस्वास्थि(स्थ्य?)रूपं- विलसत्सत्प्रणिधानं, तद् विलसत्सत्प्रणिधानं विद्यते यस्य स विलसत्सत्प्रणिधानस्तस्य सम्बोधनं- हे विलसत्सत्प्रणिधान !; हे निधानसमाक्षरदान !- निधीयते- स्थाप्यते चेतसि भूमौ वा तन्निधानं, न क्षरतीत्यक्षरं- मोक्षं ज्ञानं वा, तस्य यद्दानं- प्रयच्छनं तदक्षरदानं, निधानसमं- मनोवाञ्छितार्थप्रापकत्वानिधानतुल्यमक्षरदानं विद्यते यस्य स निधानसमाक्षरदानस्तस्य सम्बोधनं- हे निधानसमाक्षरदान !; हे नतसुरनरसमुदाय !- नता-नमस्कारार्थं नम्रीभृताः, सुरनरसमुदाया- देवमनुजसमूहा यस्य स नतसुरनरसमुदायस्तस्य सम्बोधनं- हे नतसुरनरसमुदाय ! हे मुदाय !- मुतो( दो)- हर्षस्याऽऽयो- लाभो मुदायः, स मुदायो विद्यते यस्य स मुदायस्तस्य सम्बोधनं- हे मुदाय !; अथवा मुतो(दो)- हर्षस्याऽऽयोलाभो भवति यस्मात् सेवकानामिति मुदायस्तस्य सम्बोधनं- हे मुदाय !; हे सदागतमान !- सदा- सर्वदा, गतो मानोऽहङ्कारो यस्मात् स सदागतमानस्तस्य सम्बोधनं हे सदागतमान !; हे श्रीजिनपार्शनिशाकर !- श्रीमन्तो ये जिना:- श्रीजिना:-सामान्यकेवलिनस्तेषां श्रीजिनानां मध्ये योऽसौ पार्श्वनिशाकरः- पार्श्वजिनरूपचन्द्रः स श्रीजिनपार्शनिशाकरस्तस्य सम्बोधनं- हे श्रीजिनपार्श्वनिशाकर !; हे साकरवचनविचार !- सा- लक्ष्मीः, तां करोतीति साकरः, साकरो वचनविचारो- वचनरचनानुक्रमो यस्य स साकरवचनविचारस्तस्य सम्बोधनं- हे साकरवचनविचार !; हे धर्मनिधे !- धर्मस्यश्रुत-चारित्ररूपस्य, निधिरिव निधिनिधानरूपो यः स धर्मनिधिस्तस्य सम्बोधनंहे धर्मनिधे !; हि- निश्चितं, मयि- स्तुतिकर्तुज्ञानचन्द्रे, ज्ञानं निधेहि- स्थापय; हे स्फुटसार-स्फुट(टः), सारं( रो)- बलं यस्य स स्फुटसारस्तस्य सम्बोधनं- हे स्फुटसार ! ||५||
॥ इति श्रीपार्श्वजिनस्तवनावचूणिः समाप्ता ॥