________________
२
(२) श्रीशान्तिनाथलघुस्तोत्रम्
किं कल्पद्रुमसेवया यदि मया शान्तिः श्रितः सर्वदा किं कर्पूरशि (श) लाकया नयनयोर्जातोऽतिथिश्चेदसौ । किं पीयूषपिपासया यदि पि (प ) पे त्वत्कीर्तिवार्तारसो . यद्वाऽन्यैरपि चेन्द्रियप्रियतमैः पर्याप्तमर्थागमैः ॥१॥
सर्वाङ्गसुभगाकारं, कारणं सुखसम्पदाम् । शान्ते ! तव मुखं दृष्ट-मिष्टलाभो बभूव मे, ॥२॥ भुवनानन्दविधात्री, यत्र श्रीः काऽपि निर्भरं वसति । तज्जिनपतिपदकमलं, भवे भवे भवतु मे शरणम् ॥३॥ दानिनां परमो दानी, मुनीनां परमो मुनिः । ज्ञानिनां परमो ज्ञानी, शान्तिः कस्य न शान्तये ॥४॥ स्वामिनामपि यः स्वामी, गुरूणामपि यो गुरुः । देवानामपि यो देवः सेव्यतां शान्तिरेव सः ॥५॥
"
॥ इति श्रीशान्तिलघुस्तोत्रम् ॥
(३)
श्रीनेमिनाथलघुस्तोत्रम्
परमान्नं क्षुधार्त्तेन, तृषितेन भृतं सरः । दरिद्रेण निधानं वा, मयाऽऽतं नेमिदर्शनम् ॥१॥
अनुसन्धान- ७०
निःसीमसौभाग्यमसीमकान्ति, निःसीमलावण्यमसीमशान्तिम् । निःसीमकारुण्यमसीमरूपं, नेमीश्वरं रैवतके नमामि ॥२॥
आलोकेन जिनेन्द्रस्य, दिनेन्द्रस्येव रैवते ।
तमोमयी निशा नष्टा, जातं सुदिनमद्य मे ॥३॥