________________
६८
सिरिपासणाहपमुहा जिणेसरा जत्थ निच्चसुपसन्ना । पिप्रति सकलाभीष्टं, भव्यानां भक्तिभव्यानाम् ||३०|| जत्थ लवणोअलहरी - पिच्छणगमह (हो) सवाई पिच्छंति । जम्बूद्वीपजगत्यामिव देवा दुर्गशिरसि जनाः ||३१|| जत्थुल्लसितरंगो जलही गज्जतवेलपडुपडहो । सुप्रातिवेश्मिकाप्ति-प्रमदादुत्सवमिवाऽऽतनुते ॥३२॥
वीरजिणं(णि)दपरंपर-रत्तासयसद्व (ड्ढ) सद्दि (ड्डी) संघट्टा ।
श्रीमद्देवकपत्तन-नगरान् नगराजवसुविभवात् ॥३३॥ हरिसरसवसुल्लसिर-प्पभूअरोमंचकंचुआइन्नो ।
घटितकरद्वयसम्पुट-सण्टङ्कितपटुललाटतटः ॥ ३४॥ उल्लासवासवासिअ-चित्तो अइदित्तपणयपब्भारो । समुदितविनयोत्कण्ठः, सविशेषोन्मिषितभक्तिभरः ||३५|| छव्वणनयणपउम-प्पसिआवत्तेर्हि वंदिऊण सिसू । विनयविजयाभिधानो विज्ञपयत्युचितविज्ञप्तिम् ॥३६॥ किच्चं जमिह परूढे दिवायरे तिमिरजलहिकुंभसुए । पद्मवने च विबुधे सस्पर्द्धमिवाऽङ्गिनेत्रगणैः ॥३७॥ मइलं मइलणसीलं निम्मेरं सुद्धमग्गआवरणं । हन्तुमिव तमस्तरणौ रुषाणे दिक्षु विततकरे ॥३८॥ इब्भाइन्नसभाए बहुलपभाए सया सुहम्माए । स्वाध्यायेऽन्त्यषडङ्गीं विवृणोम्यङ्गं द्वितीयमर्थाच्च ॥३९॥ गीतिः ॥ पढण-पढावण-सोहण-विरयण - लिहणाइएस गंथाणं । पूजाप्रभावनादिषु कार्येऽथाऽऽर्येषु च भवत्सु ॥४०॥ कालकमेणं पत्ते भद्दवए मासि भव्वमद्दमए । श्रीपर्युषणपर्वा ऽनेकसुपर्वाचितमुपेतम् ॥४१॥ तच्च मासखवणाइदुक्कर-तवचरणं धम्मकज्जसंभरणं । सप्तदशभेदपूजा-विरचनमप्यर्हदर्चानाम् ॥४२॥ बारसदिणाणि जीवा - भयदाणुग्घोसणं सपुरगामे । याचकयांचितवितरण-मपराधक्षमणकं च मिथः ॥४३॥
Jain Education International
अनुसन्धान- ६४
For Personal & Private Use Only
www.jainelibrary.org