________________
जुलाई - २०१४
६३
ऋषि]माण्डणनामानो वैयावृत्त्यादिकारकाः । मुनिर्नयविजयाख्योऽसौ, आख्यातस्य पाठकः ॥२१७॥ मुनिर्दक्षविजयः (य)-त(स्त)पोधनमनोहरः । गणयो(यः)सूरचन्द्राख्याः(ख्या) योगोद्वाहनतत्पराः ॥२१८॥ अत्रत्य(त्यः) सकलसङ्घ-साधु श्रीमल्लोको विशेषेण (?) । श्रीतातचरणकमलं, वन्दन्ते गणिवाचकं च भूरिभावेन ॥२१९॥ वन्दना त्वनुवन्दना च ज्ञेया ज्ञाप्या च सर्वदा । जिनदत्तसाधुयोधा-मेहाजलसज्जनाः सततम् ।।२२०॥ बालेन लिखितं यच्च, यन्नूनमथवाऽधिकम् । क्षन्तव्यं तत्क्षमावद्भिः, भूयात् सर्वं पुनः(न)Mदे ॥२२१॥ मासे श्रीकार्तिक कृष्ण-चतुर्थ्यां बुधवासरे । शिशुना विजयहर्षेन(ण) लेखोऽलेखीति मङ्गलम् ॥२२२॥ इति भद्रम् ॥ संम्वत् १६३० वर्षे कार्तिकमासे कृष्णपक्षे ४ तिथौ बुधवार(सरे)
• लेखः सम्पूर्ण(र्णी)कृतः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org