SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६२ . ' अनुसन्धान-६४ विद्याहर्षगणिश्रेष्ठाः गणयो गुणशालिनः । रुडर्षि गणिनामानो(नः) साधूनां चित्तपोषकाः ॥२०३॥ शील(ले) गाङ्गेयसदृशाः कर्मर्षिगणिपुङ्गवाः । परोपकारैकमनाः तपसाधनसन्निभाः ॥२०४॥ कीर्तिहर्षगणिश्रेष्ठाः कीर्ति-हर्षविराजिताः । लक्ष्मीविजयगणयः(यो) वैयावृत्त्यविचक्षणाः ॥२०५।। कृष्णविजयनामानो [गणयो] गुणभासुराः । पद्मविजयगणयो(यः) प्रमाणपठनोद्यमाः ॥२०६॥ चम्पर्षिगणयश्चाऽपि, चम्पकोमलभूघनाः । । लखमसिनामानो गणयश्चाऽपि, श्रीतातपदसेवकाः ॥२०७॥ क्षुल्लकः सूरविजयः(यो) वृद्धः क्षुल्लकमण्डले । गणिर्जयविजयाख्यश्च विज्ञानगणशोभन: (?) ॥२०८।। क्षुल्लकः शुभविजयः पठनोद्यमकारकः । श्रीतातपादस्य सेवकः क्षुल्लकाग्रणीः ॥२०९॥ मुनिर्धनविजयाख्यश्च श्रीतातपदसेवकः । श्रीवाचकपदे पद्मे भ्रमरो क्षुल्लकाग्रणीः ॥२१०॥ मुमुक्षुलाभविजयः विनयादिगुणमञ्जुलः । कर्मदासऋषिश्चाऽपि वैयावृत्यविचक्षणः ॥२११।। लुमाद्यदुर्वाद(दि)मृगान् विनाश्य, खाद्यादिमातङ्गमदं निहत्य । जिनेन्द्रसिद्धान्तवनं सुगाहयन्, सिंहायते तातनगाश्रितो यः ॥२१२।। उद्योतविजयाह्वानाः, श्रीतातपदसेवकाः । मुनिर्मतिविजयाख्योऽसौ, लुमाद्यमदनाशकः ॥२१३॥ मुनिर्भाग्यविजयश्च, जिनेन्द्रमतदीपकः । मुनिन(न)यविजयाख्योऽसौ(योऽसौ)सिद्धान्तगणभासुरः ॥२१४॥ मुनिश्च पुण्यविजयः(य) आज्ञापालनतत्परः ॥ मेघश्री-कोडाई-कथू-लक्खाकादिसाधूनां । चम्पश्री-कनकश्रीसाध्वीनामनुनतिर्ज्ञाप्या ॥२१५॥ अत्रत्यभीमविमलाः(ला) गणयो गुणशालिनः । जयवन्तर्षिगणयः(यो) योगोद्वाहनतत्पराः ॥२१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy