SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ सिद्धिदं सासितं दक्ष-प्रभं कम्बुप्रभंकरम् । हतमोहं हरं मोक्षं सुगुरुं सुसुधारुचिम् ॥१७॥ निष्कलङ्क निधि लक्ष्म्याः मुनिपं सुमुदा परं पदम् ॥ पञ्चाननं नरे वारे, विविधाम्बुजसन्निभ । भवहंताररश्मि च, चञ्चत्सद्गुणनन्दनम् ॥१७९॥ भम्भाचारुरवं विश्वे सज्जनं नररक्षकम् । नवनीतचलद्देह-हरं मानवमण्डले ॥१८०॥ ॥ हारश्लोक - ६॥ । भम्भालिहं हंससमं महाबलं चञ्चद्रवैर्भासितचारुवक्त्रम् । । भद्रप्रदं भाव्रजचञ्चदक्षं कल्पप्रभार्क कमलाभिरामम् ॥१८१॥ . श्रीनायकः कर्महरो मुनीश्वरः, श्रीलालवद् यः परमोदयश्च । विशाललक्ष्म्याः (म्या) प्रविराजमानः, तुर्यध्वनिनिर्ममतः तमोहरः । रम्भाधरो रोममतिप्रकाण्डः ॥ ॥ त्रिपदी ॥ देयादसौ सौर्यकलं ततप्रभं आनन्ददो दोषहरे जय प्रदः ॥ भंभातुर्य वक्रतुर्य युगलम् ॥ यस्य प्रतापो दिननायकोऽसौ, शरीरमेरुं रुचिरं भ्रमंश्च । भव्यालिपद्मं निजकान्तिचक्रैः, सदा मनोजं च विकाशकं जयम् ॥१८२॥ सूर्य ॥ भेजे शशाङ्को मुनिनाथप , चिह्नच्छलान्मानवचक्रकुम्भे ॥ शशाङ्कचित्रम् ॥ पदद्वयम् ॥ श्रीमन्महेवाख्यपुरान् मनोहरान्(त्), श्रिया युतात्(द्) दानयुतात् सुखाकुलात् । प्रासादकेतुप्रविराजमानात्(), विमानसौधौघसुहट्टभासान्(त्) ॥१८३॥ राजाऽभवत् श्रीहरपालनाम्ना, ख्यातो गुणैरानकदुन्दुभिर्यथा । राज्ञी पुनर्देवकराद्भुतेव, नाम्ना श्रिया धन्यवती सुतस्तयोः ॥१८४॥ राजा महाराजकुलीनशेकरः, श्रीमेघराजाभिधराजशेखरः । भूपालमालानतपादपङ्कजः, सदा जयत्यङ्गरमास्तपङ्कजः ॥१८५॥ य: पालयत्यात्मजवत्प्रजा निजाः(जा) अधःकृताशेषनृपः स्वनीतिभिः । धृतावतारः पुनरेव माधवो हर्तुं प्रजानामिव पीडितं कलेः ॥१८६॥ यन्ना(न्या?)यमालोक्य हरिः प्रसन्न-श्चकार दुर्गं शतहास्तिकं पुरे । कलावहो यन्महिमाऽतिशेते, यायात् कथं तस्य तुलां जनार्दनः ॥१८७।। गृहाङ्गणे स्वर्गतरुर्विलोकितुं, ह्यवातरद् दानमरिष्टकैतवात् । शैलच्छलाद् दिक्पतयो गजैरिव तदीयदानोपमितिः कुय(त?)स्तरा ॥१८८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy