________________
जुलाई - २०१४
जनगन्धहरिर्वीर जयराशिर्गताजरः । सूरिचूडामणिः सूरः रिपुमुक्तः क्षमाधरः ॥१६५॥ श्रीदाता तपसा सारः, विबुधाधिपभासुरः । जन्तुपो भवमुक्तोऽरं यमहः परमेश्वर ॥१६६॥ सेवकानन्दादातारः, नलिनाङ्गो दयाकरः । सूत्राम्बुधिः सदाक्रूररिष्टभ्रकुटियामलः ॥१६७।। आतङ्करहिताऽक्षार-नय गाम्भीर्यसागरः । दक्षलोचन तातार: विमलो विबुधेश्वरः ॥१६८॥ मतिभृत् कमलाधारः, लब्धिमण्डलभासुरः । सूत्रपुष्पौघभृङ्गारः, रिपुहन्ता सदाऽमरः ॥१६९।। श्रीतात: परमाचारः, विश्वत्रितयवत्सलः । जन्तो रात्वक्षरं वीर यतीश: कमलाधरः ॥१७०॥ दानज्ञानव्रजोदारः नरद्विपसमोऽमरः । सूर्यप्रतापरुचिरः रिपुपूज्यः पयोधरः ॥१७१॥ द्वात्रिंशत्पत्रकमलश्लो. ८ ॥ पीतकान्तनतः तार-हितसातयुत: तत । शान्तश्चुतगर्तपातः पूतश्वेततनुः तपः ॥१७२।। षोडशपत्रकमलश्लो० ॥ यायादममदयाया: यातु रोकः करोतु याम् । दोरोतोययतो रोदं मकयमम यकम ॥१७३॥ सर्वतोभ्रम(भद्र?) ॥ . प्रवहणं प्रणमामि ततं शिवेऽध्वनि वरेऽविधिसंशयनाशके । ततगुणाश्वयुतं सुगतं वरं ॥ त्रिपदी ॥ वररथाङ्कसुगुप्तिरथाङ्गयुतं गुरुं (?) रुचिरकीर्तिपताकमहोनतम् । रमाधवं वरमाधं, सततं सततं ततः ॥१७४|| रथकाव्य १ ॥ नमामि तं नरे मित्रं, दयाकल्पं दयाकरम् । वन्दितं शिवसातं च भयहं न भयं हरिम् ॥१७५।। सद्वारयशसा रङ्गत् कलौ कल्पं कराकरम् । विश्ववन्द्यं विभवं च कम्बुशब्दकरं सदा ॥१७६॥ नायकं कर्ममुक्तं च, चन्द्रकान्तिमनोहरम् । मर्त्यसाधुमतं सार-घनाभं मेघहं भभम् ॥१७७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org