________________
अनुसन्धान-६४
विबुधबुद्धिधरप्रभुताधिपम् ॥१३१॥ छत्रम् ॥७॥ साम्राज्यकलितस्फार-रत्नाकरसमध्वने । रयाद् देहि क्षमाखाने, रङ्गत्कीर्तिधरावने ॥१३२।। ऐरावतबलवात-तपसा विशद प्रभो! । ततामरतते! शम्भो! तमोहर सं देहि भो ॥१३३॥ छत्रचामरकाव्य श्लोक ६॥ ततं सिंहासनं भाते, ते साधो! भूरिसातद! । आक्रमत् देवभूपालललछि(च्छि)हासनं रुचा ॥१३४॥ नतेशदेवमाले!, जय मातङ्गसद्गते! । ततमेघध्वने! पीन!, मम देहि सदा जयम् ॥१३५॥ सिंहासनश्लोक ॥ भेजे वरा स्थापनिका मनोहरा, मन्येहमेवं परमा दिने दिने । सुरालिसेव्या भुवनस्य सन्मुने ॥ ॥ त्रिपदी, ठवणी ॥ ततं मुखं राजति दर्पणाभं, भद्रप्रदं मानवमण्डलानाम् । नानासुशोभासहितं सदा शुभं ॥ ॥ त्रिपदी, दर्पण ॥ श्रीवत्सं सततं सूर-रङ्गत्सारभुजान्तरम् । रयाद् भेजे परब्रह्म, मन्दारततकोमलम् ॥१३६॥ रहितं त्वषैश्च चञ्चत् श्रीः(च्छीः), पीनं ज्ञानधनं मानं ध्वानदानजिनं पुनः ॥ ॥श्रीवत्सं त्रिपदी ॥ भेजे मत्सद्वयं सारं, रङ्गत्पादं दयाकरम् । चक्रमन्दाररुचिरं, रविसारं रमाधरम् ॥१३७॥ नदः ज्ञानगणस्याऽथ घर्मणे भद्रदो रयात् । क्षीरचारुरुचारङ्गत् ॥ त्रिपदी ॥ शीघ्रं रक्षतु सूरीशः, रामहस्ततकीर्तिभाक् । कूपारः कमलायाश्च, चन्द्रसाररमासुभाक् ॥१३८।। पूतचित्तधरप्राग्रग्रन्थधी: कमलालयः । यशसा सहितः पूतः, तमोहररुचेश्चयः ॥१३९॥ मत्स्ययामलम् ॥२॥ शुभं कुम्भनिभं शोभ-भद्रदं पर्वतप्रभम् । भद्रासनं सदा भेजे, जेतुं विश्वत्रयं पुनः ॥१४०॥ वरतीरपरस्फार-रश्मिपूरितभूघनम् । शुभं पदयुगं कामं, मञ्जुलं भुवि मण्डनम् ॥१४१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org