________________
जुलाई - २०१४
शंदंददमदंमदहं नादं ॥ पदम् ॥ यामलं श्लो. २ ॥ श्रीवर्द्धमानं नवीनाङ्गं गत्या ज्ञानजयाकरम् । विगताघं जने दानं, नलिनाङ्गं गदां धुते ॥१४२॥ वल्गज्जयकरं तुझं गदेऽगदमहेऽधिपम् । भक्त्या स्तोष्ये मुनीशानं, नगरं ततसद्युतेः ॥१४३॥ सद्रपञ्चाननं विश्वे, श्वेतकीर्तिधरं परम् । इभशौर्यधरो दान-नयकल्लोलविश्वपः ॥१४४॥ शरावसम्पुट श्लो. २ ॥ अरुणज्ञाननयव्रात, अर्तिपङ्के ललद्रविः । अनन्तैश्वर्यजम्बारिः अघहं हंससन्निभः ॥१४५॥ स्वस्तिक ॥ तत्कुम्भं भय(व?)सिन्धुतारकं वक्त्रं राजति हारि विद्यया । तन्द्राहं हरितालताकरं, गोविन्दो मुनिराजिमण्डले ॥१४६।। लेखासिन्धुघनं नतामरं, रङ्गत्कुन्दनिभं भयहं जया । जरालिमुक्तो जयतान्महाशयः यतिततिमतिस्तुतिश्रुति ॥१४७॥ (?) सुकृत्यौघधर प्राग्र-सुधारोगविनाशकः । जलदं पापजंबाले जने गोविन्दसन्निभः ॥१४८॥ कलशका० ३॥ अमरपूजितमानववन्दित-प्रभुतया जयराजिजितामर । शुभभरप्रददंभगणायुत-विविधबुद्धिधरप्रवरप्रद ॥१४९॥ दमततप्रवराम्बुजसाधुषु । (?) अस्मिदे फलदे द्रुममङ्गल त्वगददेहहरे विविधौजसा । । विशददम्भवहं हरिभं धरा-ऽधिपपयोधर रत्नवरालय ॥१५०॥ यतिजयप्रद विष्टपभूषण, दलितदुर्मतिचक्र धनंजय ॥ द्विपदी ॥ अकुलितक्षमया . ततमेरुभ, गरुडलब्धिललत्दृढसाहस । शरणनन्दनतुल्यमनोहर, रवघनाभविचारहरप्रभ ॥१५१॥ भयहरप्रियकीर्तिसुविस्तृत अरुणसन्निभ! भव्यकुशेशये । विविधसत्शमदद्विपपङ्क्तिभ-भयहरभू(भ्र)कुटिद्वयजन्तुपः ।। सकलदेववरप्रवरानन, सुजयदं वदनं मम रक्षतु ॥१५२॥ नन्द्यावर्तकाव्य ॥४॥ श्रीधरं सन्मुखं शोभते सुन्दरं निर्मलं पुण्डरीकप्रभं भासुरम् । शङ्करं भव्यसातप्रदं शेखरं, सूरिचूडामणि मानवे षेचरम् (शेखरम्?) ॥१५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org