________________
५४
शमालिसोमं चपलप्रभाभृत्, हतप्रमादं वडवानलाभम् । क्रोधालिसिन्धौ शिववप्रचित्तं नमामि वाचंयमसारगङ्गम् ॥१०६॥
सन्तोष - सौभाग्यजले च सद्विधुं ॥ १०६ ॥
मायामुक्तं परब्रह्म मन्मथद्रुमसामजम् । मतिमौक्तिकधरं माजं, महिषभ्रकुटिद्वयम् ॥१०७॥
जयदं जनवृक्षे च, चन्द्रवक्त्रमनोहरम् ।
चन्दनाङ्गं कलापूरं, चण्डमुक्तं स्तुवे ह्यरम् ॥१०८॥ छत्र ४ ॥ चामरकाव्य ७ सूर्यप्रभो मानवपद्मवारे, विशालरत्नाकर एव सारः । रविप्रभावो भयनाशकश्च, विचारवल्लात्करुणप्रकृष्टः ॥१०९॥ रयात् पुना नुः करमंमलश्च सुमेरुधीरत्वधरस्त्वमोह ।
अनुसन्धान- ६४
दारिद्र्यपङ्के जलदप्रभश्च ॥११०॥ सूरीश्वरो मङ्गलराशिसत्त्व त्वक् भासमानो मनुजव्रजेष्ट । जम्भारिकीत्त्र्योदकसिन्धुसार रवव्रजो दुर्गतिराशिनाशकृत् ॥ १११ ॥ प्रतापरक्ताङ्कधरो वरोधी धीरेषु धीरो गुणराशिवप्रः । - भोगीन्द्रमुख्यः सुगतिर्नमीरुः, रुग्भासमानो जनचक्रनन्दनः ॥ ११२ ॥ मानेन हीनो, नयदो हि कामे, मेघो जने केकिगणेंऽशुचारुः । नरेन्द्रसेव्यः सुखदः प्रियांशुः, सुसेतुतुल्यो भवसागरेक: ( ? ) ॥११३॥ बलालिगाम्भीर्यपयोधरश्च, चञ्चत्कलासाहसपूरितो (ता) ङ्ग(ङ्गः) । पयोदशब्दो विनतो महाबलः, लक्ष्मीनिवासो भुवनैकबान्धवः ॥११४॥ मतिप्रधानो गतकर्मचण्डः, ललाटचन्द्रो मुनिराशिशङ्करः । वाचंयमोडुव्रजचारुसोम, मन्दारतुल्यो विशदो लसद्रुचा ॥११५॥ रेखानदीशो गुणवाक्यपूरः, रङ्गाकुलो मञ्जुलशुक्रवत्कविः । विशालनेत्रे गतपापपङ्कः, करिप्रभो ! मर्त्यगणे गुरुश्च ॥ ११६॥ छत्रम् ॥ धीवरोऽयं सदाऽदीपि पितुः सत्कुलवासव ।
पितामहसमारावः, पिनाकस्य समो द्रुवम् ॥११७॥
मनुजव्रजसत्कुम्भ, भव्यकैरवसोमभः ।
भद्रशालवनेभाभ भवमुक्त क्षमाशुभः ॥ ११८ ॥ छत्रचामरकाव्य ॥१०॥ राकाशशीव सुमुखं घनबुद्धिचारु: रुद्राधिपं सकलतापमहोर्विभेत्तुम् । रुग्भंसितं मदनसेनगणं ससंघं, धवं सुवाण्या विधिना कृतं सत् ॥११९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org