SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ शिशुः प्रभो! तव निजाखिलकम(म)चक्रे, किं सन्मुखो न भवति प्रभुतावरेण्य ! । सिंहीसुतः सकलवारणनायके हि, क्षीरोदधेः समेगुणौघसुरत्नराशेः ॥६७॥ काव्यं करोमि जनसंस्कृतजल्पनं च, शास्त्रस्य सत्पठनमेव निजेशमानम् । प्राप्नोमि शं सकलमानवपूज्यतां ते, तत्सारचूतकलिकाम्रकरैकहेतुः ॥६८॥ . विमलकमलभूघनं निर्मदं शान्तिदं वित्तदं विश्वपं देवदेवाचितम् । सकलवदनमञ्जुलं स्वर्णभं भद्रदं सिद्धिदं स्वर्गदं शङ्करं भास्करम् । रुचिरमुकुटसन्निभं सूरिचूडामणि सर्वशङ्काहरं सोमभं सूरिपं ममरममु(नु)जसेवितं(?) सर्वशोभाधरं नागगत्या वारं] साधुमत्र्येश्वरम् ॥६९॥ स्वकीयपादद्वयकान्तिचक्रैर्यस्तोषयामास मनुष्यचक्रान् । यः शोषयामास भवौघपकं, स कामरूपो मम पातु मोहात् ॥७०॥ यत्पादवह्निः प्रविराजति ध्रुवं, यत्कामदाज्ञानभवौघधान्यम् । जनव्रजानां वरहर्षमोदकं, कुर्वन् कलाशङ्खकरप्रभाकर ॥७१॥ सूर्येन किं? भविकपद्मविबोधकोऽयं, किं सद्रथेन? शिवमार्गरथाभिरामः । अश्वेन किं? यदि च शत्रगणस्य जेता(?), किं चक्रिणा? यदि जनस्य सुखस्य दाता ॥७२॥ वरं नमामि प्रवरं प्रमाद, दमप्रदं मानवनागशंदम् ।। दयं वरं नन्दनगन्धसारं, हरं जनौघे गतमोहदुर्मदम् ॥७३॥ दमायं मप्रभं वल्गत्, प्ररङ्गं सारदाप्रदम् । वनेभं ज्ञानकूपारं माप्रभं सुमहोदयम् ॥७४॥ ज्ञानदानं मिताहारं, मयनस्य सुखप्रदम् । वमाधवं सुरेन्द्रेभगतिसारं मुनि सना ॥५॥ नरेन्द्रदेवेन्द्रसुसन्धनंजयं, रङ्गत्समाङ्गं रहितं कुकीर्त्या । हर्यक्षसारं द्विजराजवक्त्रं, नाशंबलं ज्ञानविराजमानम् ॥७६॥ रविप्रतापसहितं, देवपद्मालविराजितम्(?) । अजन्यनाशकं साधु, छत्रत्रयविराजितम् ॥७७॥ छत्रम् ॥१॥ चामरप्राजितः सार-रविर्जनगणे गुरुः । रङ्गाकुल-क्षमामेरुः, रयान् मां मङ्गलं कुरु ॥७८॥ चामरकान्ते! मुनीशान-नखरायुधसन्निभ! । नरालौ कामसत्कुम्भ नक्षत्रे सोमसन्निभ! ॥७९॥ छत्रचामरकाव्य ॥ ७ पश्चात्(?) ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy