________________
जुलाई - २०१४
कृष्णस्याऽद्भुतविक्रमं मृगसमं लीलागणैः सत्वरं, कामो येन हतः शिवाध्वनि वरे नेमिप्रभोर्नेमिभाः ॥४१॥ यत्पादवारिस्सु सुधायते हि, मुदा लसत्कृष्णचमूं त्वजीवयत् । यस्य प्रभावाद् भुजगो द्विजिह्वपतिर्बभूवाऽवतु पार्श्वनाथः ॥४२॥ अशोकवृक्षो जिनवाक्यरूप: शान्तारसैः सिञ्चितसारमूल[:] । संसारतापैर्घनपीडितानां, शान्तिप्रदो राजति पापपङ्कः ॥४३॥ श्रियैश्च(यै च) मूर्तिः बहुराजयाा , सुखप्रदा सद्बहुराजयो स्तात् । आयुष्यमस्तु(?) जिनशासनाय, मानैर्युता यस्य लसत्प्रभावात् ॥४४॥ विद्याचतुर्दशमणिव्रजराजमानः(नो), वाक्यार्णवो जिनपते! तव चित्रसिन्धुः । अर्थाद्रिनीतिनिकरोमिरसैर्मनोज्ञ-मृञ्ज्याहिमोहभयशोकगणा(न्) जिनेन्द्रः ॥४५॥ कम्पायमानस्तपनीयशैलो निजौजसा दुस्तपराशिकर्ता । परीसहे नागगणे मृगेन्द्रः, श्रीवर्धमानो जयताज्जिनेन्द्रः ॥४६॥ एवं प्रणम्य जिनमण्डलसूर्यतुल्यान्, विघ्नौघपद्महरिभान् गतमोहरोगान् । दुर्ध्यानपङ्करहितान् करितुल्यदेहान्, छत्रत्रयेण विशदान् गुणरत्नवारान् ॥४७॥ श्रीगुर्जरे देशगणावतंसे, तत्राऽस्ति सारं नगरेषु शेखरम् । श्रीतातपादैर्गणि-वाचकाभ्यां, पवित्रितं स्वर्गसमानपत्तनम् ॥४८॥ विभ्राजते यत्र विशालवप्रो, अनीतिसिन्धूज्वलनैरभेद्यो(द्यः) । यया श्रिया निर्जित एव गोचय:(यो), निष्कासितोऽगाद् दिवि मर्त्यलोकात् ॥४९॥ चयाग्रचक्रं निजकान्तिराजिभिः वराङ्गुलीभिः सुरकुट्टिमं च । सन्तर्जयन् राजति विद्रुमाभं, विचित्रचित्रप्रविराजमानम् ॥५०॥ प्रासादचक्रं वरुणप्रभाधरं, दीव्यत्यहो जन्तुगणस्य सिद्धः । प्राप्तैश्च सोपानगणो विधात्रा, कृतः किलाहं भुवने मनोज्ञम् ॥५१॥ यत्रालयः सद्रविमित्ररूपः, पुण्यप्रभो दुन्दुभिचक्ररूपः । विमानतुल्यो मुनितातपादैः, पवित्रितो देवगणैनि(नि)षेवित: ॥५२॥ यो गोविन्दपराक्रमो निजभुजोत्पन्नश्रिया दायक:(को) नीत्या रामसमो रिपुं निजलसत्कुन्ताग्रचक्रैर्जयन् (?) । दण्डं मर्त्यगणे मुमोच सततं मा(ग)व्रजं वर्धयन्, सोमः सागरसत्तरङ्गनिकरं नित्यं यथा नन्दतात् ॥५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org