SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४७ जुलाई - २०१४ श्रीपुष्पदन्तो जितपुष्पदन्तौ(न्तो), सुपुष्पदन्तव्रज एव देयात् । महोदयं पुष्पगणांशुचक्रं, पुष्पौधगन्धो वरपुष्पकायः ॥१७॥ श्रीशीतलः शीतलवाक् विभाति, शीतयुतेस्तुल्यमुखः शिरोमणिः(?)। शिवालयाश्शीलधरो भवौघ-तापे लसच्छीतलवायुतुल्यः ॥१८॥ श्रीश्रेयांसः श्रेयसा राजमानः श्रेयःकामी कीर्तिगङ्गाहिमाद्रिः । श्रेय:पिण्डो(ण्ड:) श्रेयसो दायकोऽसौ, जीयाद् यावद् भानु-चन्द्रौ ह्यनन्ते ॥१९॥ श्रीवासुपूज्यो जनदेवपूज्यः, पूज्येषु पूज्योऽमरपूज्यबुद्धिः । बालार्कदेहो गतबालबुद्धिः बालेन्दुभालो बलदेववक्त्रः ॥२०॥ जयतु विमलनाथो निर्मलं लोकचक्रं घनघनमलवारं कुर्वनङ्गं सुवर्णः । हरिहरिहरिसेव्यः सौ(शौ)र्यपञ्चाननाभो, गज-वृषभ-सुहंसप्राग्रगत्याऽभिरामः ॥२१॥ मोक्षार्थं मानवानां भवतु वरगुणक्षीरपूर्णाम्बुवाहः; स्वीकाय(?) स्वर्णशैलो नयनसुखकर: श्लोकसद्वक्त्रसोमः । भास्वद्भालिप्रतापग्रहपतियुगलो गौरमासारगान:(नो) विज्ञानज्ञानभाग्यौषधिततिविततो लब्धिसन्नन्दनार्घ्यः ॥२२॥ मार्तण्ड-सोम-तपनीय-रसोद्भवालि-रत्नाऽग्नि-चारु-चपलाद्युतिसाररूपम् । किं वर्णितेन बहुना क्षितिमोहनीयं, विभ्राजते सकलदैवतचक्रवज्रिणः ॥२३॥ क्व पद्मबन्धुः क्व च तातपादो नित्यं त्रिलोकीविजयी न रोषवान् । स्तोकेन धाम्ना कुवरोषयुक्तः (?) मोत्तमस्त्वत्पदपद्मसेवकः ॥२४॥ कर्पूरगन्धस्तव शोभते ते, प्रीणाति लोकभ्रमरस्य मण्डलम् । दौस्थस्य चित्ते द्रविणं यथाऽयं, मुनिव्रजानां तव दर्शनं द्राग् ॥२५॥ श्रीनन्दनो येन हत: स्वलीलया, चित्रं न जातं भुवने तथाऽपि । रम्भावनं सामजबालकेन, उन्मीलितं प्राणविना(?) यथा च ॥२६॥ अस्त्वस्तु साम्यं तव भूघनस्य, प्रद्योतनस्य प्रियपीतकान्तेः । परं प्रतापाद् घनकम्पितोऽसौ, नष्ट्वा गतः सन्नभसि ग्रहेशः ॥२७॥ समानासमानारिमानारिमाना, जिताजाजिताजातिमायातिमाया। सुभाषाः सुभालिः त्रिकामा विकामा विचित्रावमादा मनोज्ञा मनोज्ञा ॥२८॥ ॥ इति श्रीविमलनाथवर्णनाष्टकम् ॥श्री।। अनन्तविज्ञानधरस्त्वनन्त-दिनेश्वराभो गतपापपङ्कः । अनन्तसंसारहरो हराभः, अनन्तसर्पभ्रकुटिद्वयाच्च(?) ॥२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy