________________
अनुसन्धान-६४
माया-मान-यम-प्रमाद-मदन-क्रोधालिलोभारयः, सर्वे ते तव भूघनाद् गुणयुतात् सुध्यानलीलाद् गताः । सर्पिण्यां(ण्या) हृदये च रावणमहीनाथे निगोदेष्वपि, सारांशे खलु कुम्भकर्ण-वसुधानाथे हरे चोरगे ॥५॥ मन्ये मनुष्या(?) यशसि प्रभो! ते, नित्यं शशाङ्कं शितशर्कराभम् । मृगेन्द्रसूनोर्गज[चक्र]वालं, यथा समुद्रान्नलिनाकरं सत् ॥६॥ पञ्चाननस्य मृगनागगणस्य चैव, प्रद्योतनस्य हरितारकमण्डलानाम् । साम्यं न यातमभूिघन[रत्न?]कान्तेः मर्त्यामरप्रणतमौलि[मणि] प्रभाणाम् ॥७॥ यूयं भजध्व(?) कमलासुतनाशकं दाग, हर्यक्षशौर्यकलितं कुमतिद्विपेन्द्रे । जन्तुव्रजस्य निजनन्दनपालकं सत्, सूर्यप्रभं दलितदुर्गतिदुःखमूलम् ॥८॥ युद्धे नदीश-वन-दुर्गभये त्वरण्ये, ये यान्ति भाग्यरहिताः सुखमाप्नुवन्ति । दीनत्व-दौस्थ(स्थ्य)-घनजर्जरदेहयुक्तास्त्वन्नामतो हरिभयाद्धरिचक्रवालम् ॥९॥
इति श्रीऋषभदेववर्णनाष्टकम् ॥ अपारिजातो भुवि पारिजातः, महोदयं देहि महोदयोदय! । शशाङ्करूपो जिननायकोऽजितः, महोदयं देहिमहोदयोदयः ॥१०॥ श्रीसम्भवं भयहरं जनरत्नहारं, नीहारमुक्तममलं सुमतं हि वन्दे । देवं हिताय यमहं गतकाममोहे, भक्त्या सदैव भवसागरपोतवाहम् ॥११॥ ईडेऽभिनन्दनजिनं नरदेवरूपं, सूरं प्रभावविशदं कमला धरन्तम् । सारङ्गनेत्रविमलं भवनं रमायाः, सूरं प्रभावविशदं कमलाधरं तम् ॥१२॥ पुष्करपुष्करपुष्करचित्त! सन्मतिसन्मतिसन्मतिसार! दुष्करदुष्करदुष्करचाव! दुर्गतिदुर्गतिदुर्गतिमुक्त! ॥१३॥ पद्मप्रभो, रक्षतु नो हरिप्रिया, यं प्राप्य तुष्टा इव तातपादम् । सत्केवलज्ञानविराजमानं, मयूरचक्रं(क्रे) जलदं मनोज्ञम् ॥१४॥ कुर्वन्ति नृत्यं रवि-सोम-तारकाः(का), यं प्राप्य नाथं गगने भ्रमच्छलात् । त्वत्सौम्यतामेत्य यथाहमङ्ग, नीलोत्पलं कैरवबान्धवं च ॥१५॥ चन्द्रप्रभश्चन्दनचन्द्रगन्ध(न्धो), निजस्य कान्त्या जितपुण्डरीकः । ददातु मोक्षं यशसश्च पिण्डो(ण्डः), कृतो विधात्रा दधितुल्यमांसः ॥१६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org