SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ सर्वमध्यदेवकुलिकाबन्धनामा तृतीयस्तरङ्गः । चैत्यषट्कबन्धचित्रमहाहूदे अन्तर्हदे मूलतश्च तरङ्गः [३२] ॥ अतीतलोकत्रितयोपमान! भदन्त! नाथाऽमृतसातदातः! । त्वदंहिलीनं मम चित्तमस्तु संसारदुःखोत्करपारगाऽरम् ॥२१॥ ५३ अर्द्धाभ्यां शिखरे द्वितीयस्थ(स्त)रे उभयतो बहिः खण्डदेवकुलिके ॥ यै. रोषतोषप्रमुखैश्चरि[त्रै]-र्जडा हरादीन् मुदितान् स्तुवन्ति । . .. त्वदागमाज्जा(ज्ज्ञा)तसमग्रतत्त्वास्तैरेव तान् नाथ! परित्यजन्ति ॥२२॥ ५४ शिखरोपरितनभागे सामलसारकेऽर्द्धाभ्यां बहिःपङ्क्ती ॥ निरञ्जनं विश्वहितैकहेतुं त्वामीश्वरं ये शरणं श्रयन्ति । नूनं परानन्दपदप्रतिष्ठां ते सर्ववेदिन्नचिराद् भजन्ति ॥२३॥ ५५ अर्द्धाभ्यां तत्रैव मध्यपङ्क्ती ॥ एवं द्वाभ्यां शिखरशीर्षबन्धः ॥ भविनां विश्ववन्धस्त्वं ददसे दम्भवर्जितः । तरसा सारतत्त्वानि लम्भयन्नभवः शिवम् ॥२४॥ कलशः ॥ ५६ मुनीन्द्र! भक्तत्रिदशेन्द्रवृन्दश्रेयोलताकन्दनवाम्बुवाह! ।' गताखिलाज्ञान! मनस्विरम्य! नमोनमोऽनर्दनतान! ते नः ॥२५॥ ५७ . विश्वबान्धव! तव स्त[व]मे[तत्] वीरनाथ! विरचय्य सुभक्त्या ।। मार्गयामि भगवन्! शिवहेतुं बोधिमेव शिवसन्ततिदातः! ॥२६॥ ५८ द्वाभ्यां ध्वजबन्धः ॥ एवं यो मतिमान् स्तुते जिनवरं श्रीवर्द्धमानाभिधं शक्रालीमुनिसुन्दरस्तुतिपदं तच्चैत्यचित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२७॥ इति श्रीवीरजिनस्तवनं तच्चैत्यबन्धेन भट्टारकश्रीमुनिसुन्दरसूरिकृतम् ॥ इति स्तवोपसंहारकाव्यम् ॥ इति स्वचैत्याऽभिधचित्रबन्धैः स्तोत्रैः स्तुताः पञ्चजिना मयाऽपि । दत्त्वा द्रुतं पञ्चमचिद्विलासं गतिं ददन्तां मम पञ्चमी ताम् ॥१०॥ इति पञ्चजिनसर्वस्तोत्ररूपमहाहूदोपसंहारकाव्यम् ॥ इति पञ्चजिनप्रासादबन्धस्तोत्राणि । ५९ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy