________________
जुलाई - २०१४
इत्यादिचित्रैर्बुधचित्रहेतुभि-चित्रात्मकैः स्तोत्रगणैः समन्ततः । प्रतिप्रभातं जिनराजसद्मसु स्तुवन्ति यस्मिन् कवयो जिनाकृती: ॥१॥६१ एवं सदा विज्ञविधीयमानस्तोत्रारवैरुन्नतचैत्यपङ्क्तौ । यस्मिन् प्रगे भव्यजनश्रवस्सु भवन्ति पीयूषरसाभिषेकाः ॥२॥ ६२ ___ इति चैत्यषट्कचित्रबद्धपञ्चजिनबहुस्तोत्ररूपमहाहूदस्य नगरवर्णनसम्बन्धकरणकाव्यद्वयम् ।। इति युगप्रधानावतार-तपाबृहद्गच्छाधिराजपरमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमाणवानुगामिन्यां तद्विनेय-श्रीमुनिसुन्दरसूरिहृदयहिमवदवतीर्णश्रीगुरुप्रभावपद्महूदप्रभवायां श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वर-श्रीपत्तननगरादिवर्णनश्रोतसि चैत्यषट्कबन्धचित्रमहाहदे स्वस्वदेवस्तुतिरूपे श्रीवीरचैत्यचित्रान्तर्हदे श्रीवीरजिनस्तवरूपे शिखरकलशध्वजबन्धस्तुत्याधुपसंहारनामा चतुर्थस्तरङ्गः ॥ चैत्यषट्कबन्धमहाहूदे च अन्तर्हदे मूलतश्च [३३] ॥ सम्पूर्णश्चाऽयं श्रीवीरजिनस्तुतिरूपस्तच्चैत्यचित्रान्तर्हृदः । तत्सम्पूर्ती च सम्पूर्णोऽयं चैत्यषट्कबन्धचित्रनामा महाहूदः स्वस्वजिनस्तोत्ररूपः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org