________________
जुलाई - २०१४
इति युगप्रधानावतार० नुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदय० त्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावती० स्रोतसि चैत्यटकबन्धचित्रमहाहदे स्वस्वदेवस्तुतिरूपे श्रीवीरस्तवरूपतच्चैत्यचित्रान्तर्हदे सपीठगर्भागारबन्धनामानौ युगपत् प्रथमद्वितीयौ तरङ्गौ ॥ चैत्यषट्कबन्धचित्रमहाहूदे मूलतश्च [३०-३१] ।
शमिनां ते श्रयेद्वाणी मुक्तिसौधाधिरोहणे । तात! निश्रेणिदण्ड! त्वं सुपदन्यासकारणे ॥१४॥ देवाद्दक्षिणतो मण्डपः ॥४६ वीरनाथ! गुणान् स्तौति या ते वाग्(क्) सैव मे मता । मौलयश्चापि धन्यास्ते ये त्वदंहियुगे नता ॥१५॥ देवाद्वामतो मण्डपः ॥ ४७ जयति श्रीभुजः कुर्वन् स्वानमज्जा जनान्(स्वमानमज्जनान्?) विभुः । सुमहा तेजसां धाम श्रीवीरो जन्तुतारकः ॥१६॥
४८ शिखरमूले श्रीमहावीरनाथनामगर्भं पञ्चम(द?)लं[कमलम्] ॥ श्रीवर्धमानं नतनाकिराजं जन्मादिहीनं नमतैत्यवन्द्यम् (?) । भव्याङ्गिनोऽशंशमि येन मोहहरेण तापः परितो भवस्य ॥१७॥ ४९
शिखरे शकुनासेतिप्रसिद्धगर्भागारिकाबन्धः ॥ अनन्तदर्शनज्ञानपद्मानन! मनस्विनः । त्वामेव भुवने देवं प्राहुर्भवदवस्रवम् ॥१८॥ .. अर्धाभ्यां शिखरमूले उभयतः प्रथमे बहिः खण्डदेवकुलिके ॥ न रोषलेशं दधसे कदापि महामनास्त्वं शमधाम [वीर!(?)] । तथाप्यवज्ञादिकृतो विधत्से विभो! महादण्डमकाम! कामम् ॥१९॥ ५१ - शिखरमूलेऽर्द्धाभ्यां उभयतो मध्यमे खण्डदेवकुलिके ॥ चकार यः कर्मवनानि भस्मसात् स्वयोगतेजःप्रचयैर्महामनाः । कैवल्यलक्ष्मीकलितश्च निर्वृति भेजे स जीयाच्चरमोऽरिहाऽघहत् ॥२०॥५२ -
शिखरे शकुनासोपरि सर्वगर्भमध्यदेवकुलिका ॥ ___इति युगप्रधानावतार-तपाबृहद्गच्छाधिराज-परमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमाणवाऽनुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमव० त्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वर-श्रीपत्तननगरादिवर्णनस्रोतसि
चैत्यषट्कबन्धचित्रे महाहदे स्वस्वदेवस्तुतिरूपे श्रीवीरजिनस्तवरूपतच्चैत्रा(त्या)न्तहूंदे मण्डल(प)द्वयकमलगर्भागारिकाप्रथमस्थ(स्त)र-खण्डदेवकुलिकाचतुष्क
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org