________________
४०.
अनुसन्धान-६४
रमानिधे! वीर! भवाब्धिपारं ददासि सुध्येयपदारविन्द! । त्वमेव संसाधितसिद्धियोगा(ग)! रसाऽदितः पारगताऽविकार! ॥३॥ ३५ रतीशदुर्वारविकारभारं(र)संहारहेतुर्वचनं त्वदीयम् । . तत्त्वावबोधं भविनां तनोति रङ्गद्गुणाधार! विनिर्जिताऽर! ॥४॥ . ३६
द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां पीठे प्रथम सोपानम् ॥ रवाऽपास्तस्फुरद्वाई! तनुभाजितकाञ्चन! । लीलाचलितदेवाद्रे! जय रम्य! सुखाकर! ॥५॥ रमते यस्य धीरस्य त्वद्गुणस्तवने मतिः ।। पदं स लभते नूनं श्रीवीर! भुवनोत्तरम् ॥६॥ . . ३८
. तथैव द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां द्वितीयं सोपानम् ॥ रयाद् भवभियां पारं रतस्त्वत्पूजने नरः । रङ्कोऽपि सुरपूज्योऽरं रङ्गवांल्लभतेऽक्षरम् ॥७॥
____ तत्रैवाऽनेन पङ्क्तिस्थितार्द्धद्वयेन तृतीयसोपानम् ॥ स्तुति यतिततिस्तुत्य! भगवन्! विदधत्तव । ' लभते भविदोऽभीष्टमकाम! शमधाम! शम् ।।८॥
४० गर्भागारे देवादक्षिणतः प्रथमस्तम्भः ॥ वरहारहरक्षीरगौराः कीर्त्तिभरास्तव । धवलीकुर्वते विश्वं ज्ञस्तोमस्य महामताः ॥९॥ द्वितीयस्तम्भः ॥ ४१ ये नटा नव्यनव्यस्वावतारैर्मोहका नृणाम् । श्रितास्तेऽपि त्वदर्शी देवाऽरतिरसे रतैः ॥१०॥ तृतीयस्तम्भः ॥ ४२ रवि भुवि भविस्फूर्ज-न्मोहध्वान्तक्षये विभो! । त्वामाश्रित्य जयत्येव न को भव्यो भवं भटम् ॥११॥ चतुर्थस्तम्भः ॥ ४३ स महा(समहा?)मम मङ्गल्यलक्ष्मीलीलागृहं भवेत् । यस्ते नाथ! पदद्वन्द्वं स्तौति भग्नभयं भवी ॥१२॥ पञ्चमस्तम्भः ॥ ४४ स्मरवीरतिरस्कारक्षम! नाथैकशोऽप्यहो! । नयतस्तेन तं स्वस्य सच्चक्रं शक्रतां क्रमौ ॥१३॥ षष्टः स्तम्भः ॥ ४५
एवं स्तम्भषट्कबन्धः ॥ एवं त्रयोदशभिः सम्पूर्णः सपीठससोपानगर्भा[गा]रबन्धः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org