SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ यस्याना(घा?)ज्ञा विमदीकरोति वेतालभूपालफणीभसिंहान् । अकालकालज्वलदालयादिभियश्च जेनेति कृतिस्तुतिज्ञा ॥४५॥ २९ अघवल्ल्यां स वल्याभो वरज्ञानधनो जिनः । भवतानवकारी नः कुर्याद् भयजयं --- ॥४६॥ ध्वजः ॥ ३० एवं मया स्तुत! जगत्पतिपार्श्वजीरापल्लीवतंस! वितराऽऽशु मम प्रसद्य । आरोग्यबोधिविभवौ वरभक्तपद्मावत्यौरगेश्वरशिरोमुकुटायितांहे! ॥४७॥ ३१ श्रीजीराउलिपार्श्वनाथमिति यः सर्वेन्द्रपद्मावतीवैरोट्या मुनिसुन्दरस्तुतिपदं संस्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥४८॥ ३२ श्रीजीरिकापल्लिमण्डनश्रीपार्श्वनाथस्तवनं तच्चैत्यबन्धेन श्रीमुनिसुन्दरसूरिकृतम् ॥ - इति युगप्रधानावतार तपाबृहद्गच्छपरमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमाऽर्णवाऽनुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमवदवतीर्णश्रीगुरुप्रभावपाहूदप्रभवायां श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वरश्रीपत्तननगरादिश्रोतसि चैत्यषट्कबन्धचित्रमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीजीरापल्लीमण्डनश्रीपार्श्वजिनचैत्यचित्रान्तहूंदे तत्श्रीपार्श्वस्तवरूपे द्वितीयस्तोत्रे सालेखे शिखरकलशध्वजबन्धनामानौ युगपत् सप्तमाऽष्टमौ तरङ्गौ ॥ चैत्यषट्कबन्धचित्रमहाहदे च मूलतश्च [२८-२९] ॥ सम्पूर्णश्चाऽयं तदीयस्तोत्रद्वयेन श्रीजीरापल्लीमण्डनश्रीपार्श्वचैत्यचित्रान्तर्हृदः ॥ । .. अथ श्रीमहावीरजिनचैत्यचित्रान्तर्हृदस्तदीयस्तुतिरूपः प्रस्तूयते – । जयश्रियं प्राप्य महाभटानां रागादिकानां जितविष्टपानाम् । · बभूव यः सार्थकनामधेयः प्रभुं महावीरमिमं स्तवीमि ॥१॥ ३३ श्रीवीरप्रासादे तलबन्धः ॥ न शक्यते या सदृशातैस्ते स्तुतिः सुरेन्द्रैरपि कर्तुमीश! । तां संविधित्सन्नहमल्पबुद्धिः स्फुटं ब्रवीमि प्रभुशक्तिमौग्ध्यम् ॥२॥ ३४ गर्भागाराच्छादकपद्मशिलाकारभारपट्टबन्धः ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy