________________
३८
अनन्तसद्दर्शनचारुलोचनं नतो भवन्तं भवभीतिमोचनम् ।
न(त्वां?) नौति नूनं परमर्च्यतां भजन् जगत्त्रयस्याऽपि महत्तमः श्रिया ॥३५॥ १९ शिखरे देवाद् वामतस्तादृश्येव तृतीया देवकुलिका ॥ त्वन्नाममन्त्रो हरते प्रजानां नानामहाविघ्नचयं स्मृतोऽपि । वशीकरोता(ती) हितमङ्गलानि निरञ्जन ध्येयबुधस्तुतोऽर्हन् ||३६||
२०
शिखरे शकुनासोपरि अर्धाभ्यां पङ्क्तिद्वयेन सर्वमध्या देवकुलिका ॥ अनन्तमाहात्म्यमयस्वरूपं पराभिभूतान्तरवैरिचक्रम् । क्रमाब्जसेवापरनागराजं जगत्पतिं पार्श्वजिनं महेश ! ||३७|| अकालकालाब्दपय:प्रवाहहतोऽपि ते ध्यानशिखी दिदीपे । पेठुर्बुधास्तेन भवद्यशांसि सितांशुशुभ्राणि सुधाम [ धाम!] ॥३८॥ शिखरमध्ये द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां मध्यमा महादेवकुलिका ॥ नीलोत्पलविनीलाङ्ग! गतकर्ममहाभय! | यशसामेकपात्रं त्वं त्वरितं वाञ्छितं कुरु ||३९||
२२
हतमोहमहायोध! धरणाऽभ्यतिक्रम! | माऽऽनन्दपदं हि हितसर्वस्वसङ्गतम् ॥४०॥
शिखरे तद्गर्भमध्यर्महादेवकुलिका ॥
नमत्फणिफणस्फाररत्नोद्भासिक्रमाम्बुज ! | जय पार्श्व! जगत्तात! तनुभाजितनीरज! ॥४१॥
अनुसन्धान- ६४
Jain Education International
२४
तत्रैव कुलिकातो वामतः खण्डदेवकुलिका ॥
धरणोरगनाथस्ते भक्तानां भगवन्! वरम् ।
रसा सादरं दत्ते विहितेष्टहितः सना ॥४४॥ कलशः ॥
२१
२५
शिखरे सर्वोपरितनभागे मध्यपङ्क्ती ॥ सितमपि वचनं ते नाथ! संसारतापं परिभवति परेषां नैव बह्वप्यराग! | गरममृतलवोऽपि प्रापयत्याशु नाशं शतमपि न घटा यद्वारिणः प्राणभाजः ॥४२॥ तव चरणसपर्या देव! सर्वाघवृन्दं दव (ल) यति भवभाजां सर्वतः साध्वसं च । चतुरनुतगुणौघ! श्रेयसां चाऽपि पुत्रं जनयति परितोऽवि स्तोतृदेवाधिराज! ॥४३॥२७
२३
द्वाभ्यां शकुनासादारब्धमूलामलसारकप्रविष्टप्रान्तमध्यगतबहिर्गतार्द्धार्द्धपङ्क्तिस्थिताभ्यां सामलसारकः सम्पूर्णः शिखरबन्धः ॥
For Personal & Private Use Only
२८
www.jainelibrary.org