SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ३७ महानन्दपदप्राप्ति-दुर्लभा तस्य नाऽङ्गिनः । गाढभक्त्या प्रभुं स्तौति यस्त्वां सन्त्यज्य रागिणः ॥२८॥ लघुमण्डपबन्धः ॥ १२ भग्नारिश्रीः शुभश्रेणीदातः! पापभरापहृत् । श्रीपार्श्व! क्षोभमुक्तस्त्वं सना मे भज नाथताम् ।।२९।। . शिखरमूले तन्मध्ये च पार्श्वनाथेति नामगर्ने कमलम् ॥ शिवार्थिनो नंनमति प्रकामं मनस्विनः संशमिताऽघराशेः । न के भवन्तं तरसा ददानं न तेषु मोक्षं क्षमयाऽभिरामम् ॥३०॥ १४ शिखरे मूलशकुनाशेतिशास्त्रप्रसिद्धगर्भागारिकाबन्धः ॥ जगन्मित्र! नवः कोऽपि त्वत्प्रभावप्रभाचयः । स्तुतोऽपि हरते विघ्नध्वान्तजालं सुजात! यः ॥३१॥ अर्द्धाभ्यां शिखरमूले देवाद्वामतो दक्षिणतश्च प्रथमे बहिःखण्डदेवकुलिके॥ इति युगप्रधानाक्तार-तपाबृहद्गच्छाधिराज-परमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमार्णवानुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमवदवतीर्ण० श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वरश्रीपत्तननगरादिवर्णनश्रोतसि चैत्यषट्कबन्धचित्रमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीजीरापल्लीमण्डनश्रीपार्श्वचैत्यचित्रान्तर्हदे तत्श्रीपार्श्वस्तवरूपे द्वितीयस्तोत्रे स्तम्भपञ्चक-तदुपरितनभारपट्टमहामण्डपसाधोमुखकमलमध्यपङ्क्तिसकलशबहिः पङ्क्तिलघुमण्डपशिखरमूल-तन्मध्यकमलगर्भागारिका-उभयपार्श्वस्थबहिःप्रथमखण्डदेवकुलिकाद्वयबन्धनामको युगपत् पञ्चमषष्ठौ तरङ्गौ ॥ चैत्यषट्कबन्ध० महाहूदे च मूलतश्च [२६-२७] ॥ त्वदीयगुणसन्दोहे रमते यस्य भारती । भारती दुर्लभे(भा) नैव तस्य सच्छर्मसङ्गिनः ॥३२॥ । १६ शिखरे देवाद्दक्षिणतो द्वितीया बहि:शीर्षा खण्डदेवकुलिका ॥ अतुल्यगुणसन्दोह! हताज्ञानतमोभर! । रत! संसारविध्वंसे सेवे तव नतः पदौ ॥३३॥ १७ तादृश्येव देवाद् वामतो द्वितीया खण्डदेवकुलिका || जगज्जिनेन्दो! शरणं समाश्रितं तवैव संसाररिपोबिभेति न । न दन्तिनो हन्ति भयं हि वेतसं समाश्रितः कोऽपि समुल्लसत्क्रुधः ॥३४॥ १८ शिखरे देवादक्षिण[त]स्तादृश्येव तृतीया देवकुलिका ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy