________________
अनुसन्धान-६४
भवन्त्यवश्यं तव नामशून्याः सर्वेऽपि मन्त्रा विफला नराणाम् । संस्थाप्यमाना अपि बिन्दवः किमादिस्थिताङ्गैर्विकलाः फलाय ॥१८॥ २०२
गर्भागारादारभ्य मण्डपे प्रथमः ॥ . स्मरन्ति रम्यं तव नाममन्त्रं ये सुप्रभाते दृढभक्तिभाजः । .. सर्वेहितार्थान् खलु ते लभन्ते रयादिदं मेऽप्यनुभूतिभूमिः ॥१९॥ ३
मण्डपे द्वितीयः स्तम्भः ॥ . स्फुरत्तरस्फारफणालिशाखा बिभ्रन्मणीपल्लवपेशलाग्राः ।। त्वं नाथ! युक्तं कलिकल्पवृक्षः सतां करोषीहितसारसातम् ॥२०॥ ४
तृतीयः स्तम्भः ॥ सुरा हराद्या अपि पादपद्मं ध्यायन्ति ते नाथ! शिवाप्तिकामाः । संसारदुःखौघविमोचनाय यदस्त्युपाय: पर एष एव ॥२१॥ चतुर्थः स्तम्भः।। ५ । विना जिनाधीश! तवाऽऽगमेन न प्राणिनः कर्ममलो व्यु(व्य)पैति । .. शुद्धिः कुतो वा कतकस्य चूर्णं विना रजोभिर्मलिने वने [स्यात्?] ॥२२॥ ६
मण्डपे पञ्चमः स्तम्भः ॥
एवं मण्डपद्वयस्य स्तम्भपञ्चकबन्धः ॥ तोषं देहि गतद्वन्द्व! हे श्रीपार्श्वविभो! मम । . अमेयमहिमागार! भक्त्या नम्रनरामर! ॥२३॥
मण्डपद्वये गर्भागारद्वा(रादारभ्य पङिक्तद्वयररूपभारपट्टखण्डत्रयबन्धः ॥ तव सेवाफलाभिज्ञाः न रमन्ते सुरान्तरे । . चिन्तारत्नगुणज्ञा हि काचेऽनादरधारकाः ॥२४॥ मेधाविप्रवरा ये त्वां श्रयन्ति शरणं विभो! । । रागाद्याः शत्रवो नैषां भवन्ति दरकारकाः ॥२५॥
स(म)हामण्डपेऽधस्तनमध्यपङ्क्ती साधोमुखकमले ॥ . गरीयो महिमागारं त्वं नवः कल्पपादपः । यः स्मृतोऽपि सदाऽभीष्टततीवितनुषेऽङ्गिनः ॥२६॥ महामूढा रता देवान्तरे जानन्ति किं --- । असन्मुक्तिः परो मुक्तिं दत्ते स्तुतपदोऽपि न ॥२७॥ महामण्डपे उपरितने बहिःपङ्क्ती सकलशे ॥ एवं चतुर्थ्यां साधोमुखकमल[कल]शमहामण्डपबन्धः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org