________________
जुलाई - २०१४
तस्येन्द्रियरसत्यागो दुर्लभोऽतत्त्ववेदिनः । शृणोत्यवनतज्ञाऽज! त्वदीयां भारतीं न यः ॥१०॥
९४
त्रिभिस्तत्रैव मध्येऽन्तरालपूरकक्ल्ल्याकारबन्धः ॥ एवं द्वितीयभित्तिः ॥ जगत्पतिर्यः सदयः फणीन्द्र - मजीगमत् श्रीपरमेष्टिमन्त्रात् ।
दैवीं श्रियं सोऽस्तु शिवाय पार्श्वः स्फुरत्प्रभावः फलिनीलताभः ॥११॥ ९५ यः सर्वदेवेषु सुतत्त्वरूपो नित्योदितज्ञानविलासशाली । स्तुतो भवत्येव शिवाय सोऽर्हन् कुर्याद् भवापायभरापनोदम् ॥१२॥ ९६ द्वाभ्यां पङ्क्तिद्वयस्थिताभ्यां प्रासादे गर्भागारस्य तलबन्धः ॥ समग्रविघ्नव्रजघातदक्षः क्षमो जगत्त्राणविधौ धुतार! ।
३५
अनञ्जनज्ञानधर! स्मरश्रीरसारतो रक्ष नतानरं नः ||१३|| उंबरबन्धः ॥ ९७ दमो दया सत्यमलोभता च तपः परं ब्रह्म कषायमोक्षः । इत्यादयो यत्र गुणा विविक्ता वर्ष्या नितान्तं जगतां हिताय ॥१४॥ ९८ भवेत् पुमर्थेषु तथोत्तमस्य धर्मस्य यस्मात् प्रकटो ह्युपायः । त्वदागमोऽयं बहुभिः सुपुण्यैर्जिनाऽऽप्यते सर्वहितोपदेष्टा ॥१५॥ तथैव महामण्डपस्य तलबन्धः ॥
९९
वशीबभूवाऽद्भुतयत्त(वृत्त ? ) धारी यमव्रजे यः परमार्थदर्शी । महामनाः संश्रितयोगिकोटिः कैवल्यतेजःप्रचयस्य हेतो: (तुः ? ) ||१६||२०० भावद्विषत्सामजभेदसिंहः फणीन्द्रसंसेवितपादपद्मः ।
सं चिन्तनातीतसुखप्रदाता पार्श्वः श्रियं रातु रतोऽघदाहे ||१७|| युग्मम् || २०१ द्वाभ्यां पतिद्वयस्थिताभ्यां गर्भागारे उपरी (रि) भारपट्टाकारपद्मशिलाबन्धः ॥ उत्तरङ्गाकारबन्धोऽपि च ॥
इति युगप्रधानावतार-तपाबृहद्गच्छाधिराज - परमपूज्य श्रीदेवसुन्दरसूरिगुरुगुणमहिमार्णवानुगामिन्यां तद्विनेय श्रीमुनिसुन्दरसूरिहृदयहि० श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्र्यङ्कायां द्वितीये श्रीगुर्जरावतीदेश - तन्नरेश्वरश्रीपत्तननगरादिवर्णन श्रोतसि० चैत्यषट्कबन्धचित्रमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीजीरापल्लीमण्डनश्रीपार्श्वचैत्यचित्रान्तर्हृदे तदीयश्रीपार्श्वस्तुतिरूपे द्वितीयस्तोत्रे
गर्भागारभित्तिद्वयसमण्डपप्रासादतलबन्धगर्भागारद्वारशाखोम्बरपद्मशिलोत्तरङ्गबन्धनामको तृतीयचतुर्थौ युगपत्तरङ्गौ ॥ चैत्यषट्कबन्धचित्रमाहुदे च मूलतश्च [२४-२५] ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org