SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३४ अनुसन्धान-६४ श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जय,यङ्कायां द्वितीये श्रीगूर्जरावतीदेश० श्रोतसि चैत्यषट्कबन्धचित्रमहाहुदे स्वस्वदेवस्तुतिरूपे श्रीजीरापल्लीमण्डनश्रीपार्श्वचैत्यचित्रान्तर्हदे तत्पार्श्वस्तुतिरूपे पीठबन्धनामको प्रथमद्वितीयौ युगपदेव तरङ्गौ ॥ चैत्यष० महाहूदे च मूलतश्च (२२-२३) ॥ सम्पूर्णं च ताभ्यां प्रथमद्वितीयाभ्यां तरङ्गाभ्यां प्रथमं स्तोत्रम् ॥ जयश्रियो मुक्तिपदस्य दातः! पद्मावतीध्येयपदारविन्द! ! . .. श्रीजीरिकापल्ल्यवतंस! पार्श्व! नागेन्द्रसंसेव्य! महाप्रभाव! ॥१॥ ८५ यतः समग्रामरमर्त्यवन्द्यात् स्तुताद् वशीस्याच्छिवशर्मलक्ष्मीः । स्तवीमि तं त्वां जगदीश! पार्श्व! समीहितं येन रयाल्लभेयम् ॥२॥ ८६ गर्भागारे देवाद्दक्षिणतो भित्तौ तन्निष्पादकपङ्क्तिद्वयेन शाखाद्वयम् ॥ यतमानस्तव स्तोत्रे क्षिपते कर्मसंकरम् । चिनुतेऽपरदेवानां स्तवे त्वनघ! तं नरः ॥३॥ ८७ तज्ज्ञास्तेन चिदां पात्रे त्वय्येव कलयन्त्यरम् । स्तुत्याक्षेपमनन्तानां गुणानां नन्दने परम् ॥४॥ , ज्ञमण्डलभवभ्रान्तिभिदोऽर्हन् हेतवः शुभे । नीलोत्पलजितो भान्ति तव देहे लसत्प्रभाः ॥५॥ [त] त्रैव स(म)ध्ये त्रिभिरन्तरालपूरकवल्ल्याकारबन्धः । एवं सम्पूर्णः प्रथमभित्तिबन्धः ॥ भावारिवर्गस्य विजृम्भितं तत् खलायितं विश्वपते! कलेर्वा । देवान्तरोपास्तिमदात् परे य-च्छिवार्थिनस्त्वामपि नाऽऽद्रियन्ते ॥६॥ ९० भदन्तमीशं जगतां हितैककर्तारमानन्त्यधरं गुणानाम् । भवन्तमार्याः स्तवयन्ति पार्श्व! भवभ्रमक्लेशविनाशहेतोः ॥७॥ ९१ गर्भागारे देवाद् वामतो भित्तौ तन्निष्पादकपङ्क्तिद्वयेन शाखाद्वयबन्धः ॥ भित्तिद्वयेऽपि मध्यमध्यशाखाद्वयेनोभयतो द्वारशाखाद्वयबन्धोऽपि च ॥ वाणी तव विभो! भेदं नयत्येव भवापदम् । दरदावनवाम्भोद-त्रिलोकाऽवनकोविद! ॥८॥ महोदयरमाभोगो न दूरे तस्य भाविनः । यस्ते देव! पदाम्भोजं ध्यायतीभाऽघभूरुहे ॥९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy