________________
जुलाई - २०१४
७९
तत्रैव तथैव आद्योxदण्डकेऽधस्तनकोणादारभ्योर्वाऽधोगामिनी रक्तवर्णा प्रथमा मूलतश्च पञ्चमी पङ्क्तिः ॥
करोति तव यो ध्यानं सर्वसातस्य साधनम् । गताशुभ! न दुष्प्राप-स्तस्य वासो महोदये ॥१२॥
७८ विहिता[नं]तभीभङ्गः सत्प्रभावक्रमाम्बुज! । त्वदेकशरणं दीनं मां कुरुष्व सुखाश्रितम् ॥१३॥
तत्रैव तथैव तत एव कोणादारभ्य द्वितीया मूलतश्च षष्ठी नीलवर्णा पङ्क्तिः । एवमूर्ध्वाधोगामिपपङ्क्तिषट्केन द्वादशश्लोकग्रथितेन मिथःसंवलितेनाऽन्तरा स्पर्द्धकानि कुर्वता जालिकाबन्धः सम्पूर्णः ॥
शमामृतरसाचान्तं त्वन्मुखं लोचना[स]मम् ।
वीक्ष्य विज्ञायते तात! मुक्तिर्वशमिता किल ॥१४॥ पीठे जालिकायामधस्तनी सरलप्रलम्बा पङ्क्तिः ॥ . भवनीरधिपाराय नीलतारस्फुरद्वसो ।
वीरपोतनिभं पापाऽपहं त्वां संश्रयाम्यलम् ॥१५॥ पीठे जालिकायामुपरितनी सरलप्रलम्बा पङ्क्तिः ॥
भद्राणि वितर व्याज-हीनां धर्मकलां दिशन् । गतशोक! सदाप्रीत! भक्त्या ऋभुनतक्रम! ॥१६॥
८२ पीठे जालिकायामुभयतो अर्धाभ्यामाद्यन्तयोरूद्धदण्डकाकारपङ्क्तिद्वयम् ॥ इति पञ्चदशभिः सम्पूर्णो जालिकाबन्धाकारः पीठबन्धः ॥
एवं जीरापल्लिकामौलिमौले! पार्श्व! श्रीमन्! संस्तुतो भक्तियोगात् । देयाः स्वामिन्! वारिराशे! महिम्नां सर्वप्रेयः! श्रेयसां मे विलासम् ॥१७॥८३ श्रीजीराउलिपार्श्वनाथमिति यः सर्वेन्द्रपद्मावतीवैरोट्यामुनिसुन्दरस्तुतिपदं संस्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोद दयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥१८॥
इति श्रीजीरापल्लिकामौलिमण्डनश्रीपार्श्वनाथस्तवनम् । तच्चैत्यबन्धेन श्रीमुनिसुन्दरसूरिकृतम् ॥ इति युगप्रधानावतार तपाबृहद्गच्छाधिराजपरमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमाऽर्णवाऽनुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमव०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org