________________
अनुसन्धान-६४
७०
जय श्रीपार्श्व! दुर्वारि(र)विघ्नोच्चयहतिक्षम! । भगवन्! भवनिस्तारकर! भावयुजा(जो?) जिन! ॥२॥ ६८ परमज्ञानविज्ञातसर्वभाव! महाशय! । जगदानन्दसन्दोहनिदान! जननादिक! ॥३॥ युग्मम् ॥ ६९
पीठे ज़ालिकाबन्धे देवाद्दक्षिणत आद्योर्वदण्डके मध्यभागकोणादारभ्य ऊधिोगत्या द्वितीयप्रान्तोर्ध्वदण्डकमध्यप्रविष्टप्रान्तपीतवर्णप्रथमपंक्तिबन्धः ।।
जगत्तात! परज्ञानदूरीकृततमोभर! । जिनेश! तव संसार-भीतोऽहं शरणं श्रये ॥४॥ पादि(हि?) मं(मां?) तद्दयासत्रधामाऽरीण! हितालय! । त्वमेव जगतां येन पालनेऽलमसि प्रभुः ॥५॥
७१तत्रैव तथैव तत एवाऽऽरभ्याऽध[ऊ]र्वगत्या नीलवर्णद्वितीयपङ्क्तिबन्धः । विकाररहिताकार! नलिनीदललोचन! । निशाकान्तमदप्रान्तकरकान्तगुणानन! ॥६॥ नीलोत्पलविनीलाङ्ग! जगत्त्राणलसन्मनाः! । असंख्यसत्त्वसन्देहहरणक्षमभाषित! ॥७॥
तत्रैव तथैवाऽऽद्योर्ध्वदण्डके उपरितनभागकोणादारभ्य प्रथमा मूलतश्च तृतीया नीलवर्णा ऊर्ध्वाधोगामिनी पङ्क्तिः ॥
विश्वापापाऽतिदुष्टारिलीलाकृतजयादर! । प्राप्त त्रैलोक्यनिष्णात-पूज्यभावगुणोदय! ॥८॥
७४ सर्वज्ञानरमापात्र! परमः पारगामिनाम् ।। त्वमेव नय मां क्षीणकषायं स्वपदं विभुः(भो!) ॥९॥ ७५
चतुर्भिः कलापकम् ॥ तत्रैव तथैव तत एव कोणादारभ्याधऊध्र्वगामिनी रक्तवर्णा द्वितीया मूलतश्च चतुर्थी पङ्क्तिः ॥
कर्मसन्तप्तसंसारि-सुधाहदसमाऽमम! । फणिस्फारफटाटोपमण्डितेश! शिवालय! ॥१०॥ स्वर्णाचलशिरःस्नात! नम्रीभूतसुरव्रज! । जिनराज! जगत्त्राण! त्वं मां रक्ष(क्षाऽ)क्षितारक! ॥११॥ युग्मम् ॥ ७७
७३
७६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org