________________
जुलाई - २०१४
यत्याचारस्य
देह्या शुद्धि वशिप ! मे सदा ॥२९॥
६३
महामण्डपे बहिः पङ्क्ती ॥ एवं चतुर्भ्यां सकलशमहामण्डपः ॥ यत्नः शिवश्रीसुखसङ्गमाय यस्य स्तुतौ स्यात् त्वमयं विधेहि । हितं ममाऽनन्तमतन्द्रतत्त्व! तन्त्रेभवीतक्षतसात नेतः ! ||३०|| ध्वजः ॥ ६४ एवं स्तुतो रैवतमौलिमौले! मयाऽपि मुग्धोचितसंस्तवेन । विधेहि मे ! मम बोधिशुद्धिं ततो भवेद् येन वशा शिवश्रीः ||३१||६५ द्वाभ्यां सदण्डध्वजबन्धः ॥
---
३१
एवं रैवतकाद्रिमण्डनमणि श्रीनेमिविश्वप्रभुं शक्रालीमुनिसुन्दरस्तुतिपदं यः स्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥३२॥ इति श्रीरैवतकालङ्कार - श्रीनेमिनाथस्तवनं श्रीमुनिसुन्दरसूरिकृतम् ॥
६६
इति युगप्रधानावतार-तपाबृहद्गच्छाधिराज - परमपूज्य - श्रीदेवसुन्दरसूरिगुरुगुणमहिमार्णवानुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमवदवतीर्णश्रीगुरुप्रभावपद्महूदप्रभवायां श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्र्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वर श्रीपत्तननगरादिवर्णनस्रोतसि चैत्यषङ्कबन्धचित्रमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीरैवतकाचलालङ्कारश्रीनेमिचैत्यचित्रान्तर्हृदे श्रीरैवतकाचलालङ्कारश्रीनेमिस्तोत्रखण्डरूपे शिखरमण्डपकलश ध्वजबन्धनामानः षष्टसप्तमाऽष्टमाः युगपदेव तरङ्गाः । चैत्यमहाहूदे च मूलतश्च [१९, २०, २१] ॥ सम्पूर्णश्चाऽयं श्रीरैवतकाचलालङ्कारश्रीनेमिस्तवरूप श्रीरैवताद्रि - श्रीरैवतकाचलालङ्कार- श्रीनेमिमहाचैत्यबन्धचित्रान्तर्हृदः । अन्तराले प्रथमस्तोत्रस्याऽन्ते " एवं रैवतकाद्रिमण्डन• मणि "मिति काव्यस्य, द्वितीयस्तोत्रस्य चादौ " जगज्जैत्रस्येति श्लोकस्य चाऽपाठे एकमेव महत् स्तोत्रं भवति ॥
Jain Education International
अथ
श्रीजीरापल्लीमण्डनश्रीपार्श्वचैत्यबन्धचित्रनामान्तर्हृदः । तत्र श्रीपार्श्व - स्तुतिरूप: (प) स्तोत्रद्वयेन प्रस्तूयते । तत्र पूर्वं जालिकाबन्धरूपपीठबन्धस्तोत्रम् - श्रीमत्पार्श्वविभो ! वच्मि जीरापल्लिविभूषण! | स्तुतीस्ते चैत्यचित्रेण द्वैधद्वेषि जयश्रिये ॥१॥
प्रस्तावना श्लोकः, चित्रादधिकः ॥
For Personal & Private Use Only
६७
www.jainelibrary.org