SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ ५४ सिद्धौषधानीव भवद्वचांसि सितांशुकीर्ते! भविमण्डलस्य । हरन्ति संसारभयामयौघं घनाञ्जनश्यामतनोऽखिलज्ञ! ॥१९॥ ५३ तत्रैव तृतीयदेवकुलिकाकारबन्धः ॥ कैवल्यानन्दरूपाय यशोजितसितद्युते! । तेजसामेकनाथाय यर्मिस्तुभ्यं नमोनमः ॥२०॥ विवशीकृतविश्वास्तारागोपीचटूक्तयः । | -- तिनो भावतस्तेन नयन्ति स्म मनोभ्रमम् ॥२१॥ ५५ . शिखरोपरितनभागे द्वाभ्यां दक्षिणत ऊर्वं पङ्क्तिद्वयम् ॥ भवतृष्णामहातापपरिहाणे: सदोदितम् । तवानन्दमयं शैत्यं त्यक्तौपम्यमिदं स्तुमः ॥२२॥ तव स्तुतिरतस्याऽऽशु शुद्धिः सुमलिनात्मनः । नष्टाऽदृष्टमलत्वेन नतेन्द्र! भवतान्मम ॥२३॥ ५७ तत्रैव वामतः पङ्क्तिद्वयम् ॥ एवं चतुर्थ्यां सामलसारकशिखरोपरितनभागबन्धः ॥ स्मरज्वरतिरस्कार! प्रभो! क्षिप्रं महोदयम् ।। यमिन्! मम शयप्राप्तं कुरुष्व करुणाकर! ॥२४॥ नतेन्द्र! कुरु रङ्गं मे यशोमय! तवाऽऽगमे । । ज्ञात्वेदं विदधे मन्दं येन भावद्विषां मदम् ॥२५॥ __ अर्द्धाभ्यां बृहन्मण्डपादुभयतो लघुमण्डपद्वयबन्धः ॥ अथ बृहन्मण्डपः - प्राप्तानन्तशिवश्रीक! करुणाक्षीरसागर! । रतीशद्विपसिंहाभ! भद्रं देहि महोदय! ॥२६॥ महद्भिविभो! पीतं तवाऽऽगमरसायनम् । न तान् विबाधते भीमो मोहाह्वो हि महामयः ॥२७॥ ६१ महामण्डपे द्वाभ्यां मध्यपक्ति ॥ यतमानास्त्वदर्चायां यान्ति नैवाऽधमां गतिम् । तिरस्कृतभवाः किन्तु तुष्यन्ति शिवसम्पदा ॥२८॥ ज्ञाता(त)निःशेषविज्ञेय! यशोभृतजगत्त्रय! । ५८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy